________________
चतुर्दशः सर्गः।
३४९
दर्शनानुपदमेव कामतः स्वं वनीयकजनेऽधिगच्छति । प्रार्थनार्थरहितं तदाभवदीयतामिति वचोतिसर्जने ॥४८॥ दर्शनेति ॥ वनीयकजनेऽर्थिजने । दर्शनानुपदं राजविलोकनान्तरमेव । प्रार्थनामकृत्वेत्यर्थः । 'वनीयको याचनको मार्गणो याचकार्थिनौ' इत्यमरः । कामतो यथेच्छं स्वं धनमधिगच्छति लभमाने सति तदा दीयतामिति वचो दीयतामित्येतत्पदं प्रार्थना याज्जा मह्यं दीयतामिति वाञ्छा सैवार्थस्तेन रहितं शून्यं सत्तदा अतिसर्जने त्यागेऽभवदवर्तत । मह्यं दीयतामित्यर्थिवाक्याभावादस्मै दीयतामिति दातृवाक्यमेवान्वर्थमभूदित्यर्थः । अर्थिनामागमनमेव याचनमिति विवेकिनां किं याज्जादैन्यदर्शनचापलेनेति भावः। अत्र दीयतामिति वचः संप्रार्थनार्थवर्जनेनासीत्। तेनातिसर्जनार्थताकथनादेकस्यानेकत्वप्रसक्तावेकत्र नियमनाख्या परिसंख्या ॥
नानवाप्तवसुनार्थकाम्यता नाचिकित्सितगदेन रोगिणा । इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः॥४९॥ नेति ॥ अर्थकाम्यता अर्थमात्मन इच्छता धनार्थिना । 'काम्यच्च' इति काम्यच्प्रत्यये सनाद्यन्तत्वेन धातुत्वाल्लटि शत्रादेशः । तत्सद उपेयुषा प्राप्तवता पुरुषेणानवाप्तवसुना अलब्धधनेन न प्रत्यगामि न प्रत्यावर्ति । रोगिणोपेयुषा अचिकित्सितगदेनाशमितरोगेण । 'रोगव्याधिगदामयाः' इत्यमरः । न प्रत्यगामि । अशितुं भोक्तुं इच्छता उपेयुपा अनाशुषा च अनशितेन । अभुक्तवतेत्यर्थः । 'उपेयिवाननाश्वाननूचानश्च' इति बसुप्रत्ययान्तो निपातितः । न प्रत्यगामि किंतु सर्वेणापि पूर्णकामेनैव प्रत्यगामीत्यर्थः । गर्भावे लुङ् । अत्रार्थिरोगिक्षुधितानां प्रकृतानामेव पूर्णकामत्वसाम्याद्गम्यौपम्यत्वात्केवलप्रकृतविषया तुल्ययोगिता । तथा च यो यत्काम आगतः स तत्सर्वमेवास्मादलभतेति व्यज्यते ॥ स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसंकरैः । भावशुद्धिसहितैर्मुदं जनो नाटकैरिव वभार भोजनैः ॥५०॥ स्वादयनिति ॥ अनेकानि बहूनि संस्कृतानि हिङ्गुमरिचादिना कृतसंस्काराणि प्राकृतानि प्रकृतिसिद्धानि संस्कारं विना स्वादूनि कृतानि फलादीनि च येपु तैः । अन्यत्रानेकविचित्रसंस्कृतप्राकृतौ भाषाविशेषौ येषु तैः । अकृतः पात्राणां भाजनानाम् , अन्यत्र भूमिकानां च संकरो व्यतिकरो येषु तैः । भावशुद्धिः पदार्थानां मृष्टता, अथवा भावशुद्धिः गर्दा विरहः तत्सहितैः । अन्यत्र भावाः स्थायिनो रत्यादयस्तेषां शुद्धिः सजातीयविजातीयातिरस्कृतरूपकम् । 'सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् । यावदसं वर्तमानः स्थायिभाव उदाहृतः ॥' इति तल्लक्षणात् । तत्सहितैोजनैरभ्यवहारैर्नाटकै रूपकविशेपैरिव रसं मधुरादिकं शृङ्गारादिकं च स्वादयन्ननुभवानो भोक्तजनः सामाजिकजनश्च मुदमानन्दं बभार । श्लेषसंकीर्णेयमुपमा ॥
शिशु० ३०