________________
३५०
शिशुपालवधे
रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् । अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥५१॥ रक्षितारमिति ॥ इतीत्थं भूपतियुधिष्ठिरः तत्र कर्मणि राजसूयाध्वरे दुष्टानां दमने मर्दने क्षमं समर्थ हरि रक्षितारं विघ्नेभ्यस्त्रातारं न्यस्य निधाय अक्षतान्यविहतानि दानहोमयजनानि निरवर्तयदन्वतिष्ठत् । स्वकीयस्य द्रव्यस्य स्वस्वत्वनिवृत्तिपरस्वत्वोत्पादनं दानम् । देवतोद्देशेनाग्नौ हविषः प्रक्षेपो होमः। हुतस्य देवतोद्देशेन वाङ्मनसाभ्यां न ममेति त्यागो यागः । अत्र दुष्टदमनक्षमस्वस्य विशेषणगत्या हरे रक्षाधिकारहेतुन्यासहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥
एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोचकैः । यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥ ५२ ॥ एक इति ॥ सुन्वतां सोमाभिषवं कुर्वताम् । सोमयाजिनामित्यर्थः । सुनोते. लटः शत्रादेशः । सुसखा सत्सहायः । 'न पूजनात्' इति समासान्तप्रतिषेधः । एष शौरिरेक एवेत्यभिनयादिव तद्व्यञ्जकचेष्टां कृत्ववेत्युत्प्रेक्षा । 'व्यञ्जकाभिनयौ समौ' इत्यमरः । भूदेवयजनभूमिः । चषालेन यूपकटकेन । 'चषालो यूपकटकः' इत्यमरः । तेन तुलितम् । समीकृतमित्यर्थः । तुलयतेः 'तत्करोति-' इति ण्यन्ताकर्मणि क्तः । तदङ्गुलीयकमूर्मिका यस्य तम् । अङ्गुलीयकोपमानचपालमित्यर्थः । 'अङ्गुलीयकमूर्मिका' इत्यमरः । 'जिह्वामूलाङ्गुलेश्छः' इति भावे छप्रत्ययः । उच्चकैरुन्नतं यूपं पशुबन्धनदारुविशेषो रूपकं स्वरूपं यस्य तं भुजमनीनमदुन्नमितवती । नमेो चङि सन्वत्कार्यम् । अत्र सापेक्षत्वादुपमोरेक्षयोः संकरः ॥
इत्थमत्र विततक्रमे ऋतौ वीक्ष्य धर्ममथ धर्मजन्मना । अर्घदानमनु चोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः॥५३॥ इत्थमिति ॥ इत्थमत्र ऋतौ विततक्रमे विस्तृतानुष्टाने सति अथानन्तरं धर्माजन्म यस्य तेन धर्मजन्मना धर्मात्मजेन । 'जन्माधुत्तरपदो बहुव्रीहियधिकरण' इति वामनः । धर्म वीक्ष्य । धर्मशास्त्रमनुस्मृत्येत्यर्थः । अर्घदानं पूजादानननु । सदस्यपूजामुद्दिश्येत्यर्थः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । चोदितः कस्मै देवमिदमिति पृष्टः शन्तनोः सुतो भीष्मः । सभ्यं सभायां साधुं । 'सभाया यः' इति यप्रत्ययः । वचो वाक्यमभ्यधिताभिहितवान् । दधातेलुंङि तडि 'स्थाव्वोरिच्च' इति कित्त्वे 'हस्वादङ्गात्' इति सकारलोपः । वृत्त्यनुप्रासोऽलङ्कारः ॥ अथासर्गसमाप्तीप्मवचःप्रपञ्चमेव सफलं दर्शयतिआत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु । यत्तथापि न गुरुन्न पृच्छसि त्वं क्रमोऽयमिति तत्र कारणम् ॥५४ आत्मनेति ॥ तत्रात्मनो बहुमानकरणात्प्रीतस्तत्रभवान्भीष्मो राजानं तावदुत्साहार्थमेकेनोपश्लोकयति । वेत्तीति विदो ज्ञाता । इगुपधलक्षणः कप्रत्ययः ।