________________
चतुर्दशः सर्गः ।
३५१
कसो विद्यास्थानस्य विदुः कोविदः । गुणदोषयोः कोविदो विवेक्ता । करणीयवस्तुषु कर्तव्यार्थेष्वात्मनैव स्वयमेव । परोपदेशानपेक्षयैवेत्यर्थः । प्रकृत्यादित्वातृतीया । किं न वेत्सि । सर्वं जानासीत्यर्थः । तथापि त्वं ज्ञातापि गुरून्न पृच्छ सीति न, किंतु पृच्छस्येवेति यत् । ज्ञानप्रसक्तं न पृच्छसीति वारणाय नद्वयम् । तत्र गुर्वनुयोगे अयं क्रम इति न्यायः सदाचारपरिपाटीत्येतदेव कारणं न त्वज्ञानमित्यर्थः । अत्र कर्तव्यार्थप्रश्नस्याज्ञानहेतुकत्ववारणेनापरहेतुकत्वे नियमनात्पूर्वोक्तलक्षणपरिसंख्यानम् ॥
एवं राजानमुपश्लोक्य प्रश्नस्योत्तरमाह -
"
स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् । अर्धभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः ॥ ५५ ॥ स्नातकमिति ॥ स्नातको गृहस्थविशेषस्तम्, गुरुं पित्रादिकम्, अभीष्टमिष्टबन्धुम् ऋत्विजं याजकम्, संयुज्यत इति संयुक् संबन्धी जामाता तेन सह मेदिनीपतिं राजानं च । तं च मेदिनीपतिं चेत्यर्थः । षट् षडेतेऽर्धभाजः पूजार्हा इति । इतिशब्देनाभिहितत्वान्न कर्मणि द्वितीया । यथाह वामनः - 'निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात्' इति । कीर्तयन्ति कथयन्ति । वृद्धा इति शेषः । नच ते दूरा इत्याह- ते च षडपि ते तव सदः सभां युगपदागताः प्राप्ताः । अत्र स्नातकादीनां प्रकृतानामेवार्ध भाक्त्वसाधर्म्या दौपम्यावगमात्तुल्ययोगिताभेदः ॥
शोभयन्ति परितः प्रतापिनो मत्रशक्तिविनिवारितापदः । त्वन्मखं मुखभुवः स्वयंभुवो भूभुजश्च परलोकजिष्णवः ॥ ५६ ॥ शोभयन्तीति ॥ किंच प्रतापयितुं शीलं येषां ते प्रतापिनः शत्रुतापकाः । ताच्छील्ये णिनिः । अन्यत्र तेजस्विनः । ' स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः। ‘अत इनिठनौ' इति इन्प्रत्ययः । मन्त्रशक्त्या वेदमहिम्ना, अन्यत्र विचारसामर्थ्येन विनिवारिता आपदो दैवमानुषविपत्तयो यैस्ते । 'वेदभेदे गुप्तवादे मन्त्रः' इत्यमरः । परलोकस्य लोकान्तरस्थ, शत्रुजनस्य च जिष्णवो जयशीलाः । स्वयंभुवो ब्रह्मणो मुखभुवो मुखजाता ब्राह्मणाः । ' ब्राह्मणोऽस्य मुखमासीत्' इति श्रुतेः । भूभुजो राजानश्च । त्वन्मखं तव ऋतुं परितः शोभयन्ति परिष्कुर्वन्ति । सर्वेऽप्यागत्य वसन्तीत्यर्थः । अत्र राज्ञां ब्राह्मणानां च प्रकृतानामेव प्रतापादिसाधर्म्येणोपमानात्तुल्ययोगिताभेदः । साधर्म्यं च श्लेषनिबन्धनमिति संकरः ॥
आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी । एक एव गुणवत्तमोऽथवा पूज्य इत्ययमपीष्यते विधिः ॥५७॥
आभजन्तीति ॥ हे पार्थ पृथापुत्र । 'तस्येदम्' इत्यण् । सामान्यस्य योग्यविशेषपर्यवसाननियमादपत्यार्थलाभः । अन्यथा 'स्त्रीभ्यो ढकू' इति ढक् स्यात् ।