________________
शिशुपालवधे
वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि वीजवत् । भावि विभ्रति फलं महद्विजक्षेत्रभूमिषु नराधिपोऽवपत् ||३४|| वारीति ॥ नराधिपो राजा सत्क्रियाभिरभिषेक संस्कारैर्लब्धा शुद्धिर्निर्दे
३४४
याभिस्तावखिला । द्विजा एव क्षेत्रभूमयः केदारभूमयस्तासु । ' क्षेत्र हे पुरे देहे केदारे योनिभार्ययोः' इति वैजयन्ती । भावि भविष्यन्महत्फलं स्वर्गादिकं धान्यादिकं च बिभ्रति । बिभ्राणानीत्यर्थः । ' वा नपुंसकस्य' इति विकल्पान्नुमागमप्रतिषेधः । धनानि बीजवद्वी जैस्तुल्यं वारिपूर्वमुदकदानपूर्व कमव. पदुप्तवान् । दत्तवानित्यर्थः । अत्र बीजवदित्युपमानम् 'तेन तुल्यम् -' इति तुल्यार्थे क्तेर्विधानात् । तथापि वापक्रियायोगाद्विजक्षेत्रेति रूपकसमासो नोपमितसमासः । किंतु रूपकस्याङ्गमुपमा तदुत्थापितत्वादिति संकरः ॥
किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत । राजतः पुपुविरे निरेनसः प्राप्य तेऽपि विमलं प्रतिग्रहम् ||३५|| किमिति ॥ भूपतिरधिवेदि वेद्याम् । मखवेद्यामित्यर्थः । अत्र विभक्त्यर्थेऽव्यभावः । द्विजगणानृत्विग्गणान्दक्षयन्हर्षयन् दक्षिणाप्रतिग्रहेण सदक्षिणान्कुर्वन् । प्रतिग्राहयन्नित्यर्थः । तत्क्षणे दक्षिणां प्रतिगृह्येति श्रुतिदर्शनात् । 'दक्ष नैपुण्ये' इति धातोर्ण्यन्तालटः शत्रादेशः । अत एव 'निष्णाते दक्षिणे वापि नैपुण्ये निपुणेऽपि च' इति भट्टः । अपूयत पूतोऽभवदिति कर्मकर्तरि लङ् । किं चित्रं दाता पूत इति । न चित्रमित्यर्थः । किंतु प्रतिग्रहीतापि पूत इति चित्रमाह । ते द्विजगणा अपि निरेनसो निष्पापात् राजतो राज्ञः । पञ्चम्यास्तसिल् । विमलं शुद्धं प्रतिग्रहं प्राप्य
विरे पूता बभूवुः । 'विशुद्धाच्च प्रतिग्रहः' इत्यभिधानादिति भावः । अत्रापि पूजः कर्मकर्तरि लिट् । प्रतिग्रहीतापि शुद्ध इति विरोधः । स एव वाक्यार्थभूतश्चित्रत्वनिषेध हेतुरिति विरोधवाक्यार्थहेतुककाव्यलिङ्गयोरङ्गाङ्गिभावेन संकरः ॥
स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः । आ शशाङ्कतपनार्णवस्थितेर्विप्रसादकृत भूयसीर्भुवः ॥ ३६ ॥
स इति ॥ पाको नाम कोऽपि राक्षसस्तस्य शासनः शासको हन्ता पाकशास नः इन्द्रस्तेन समानं शासनं तुल्याज्ञा यस्य स इत्यर्थः । स राजा स्वहस्ते कृतं लिखितं चिह्नं स्वनामलेखनादिलाञ्छनं येषु तानि शासनानि नियमपत्राणि यस्य सः । दत्तस्वहस्तलेखाङ्कितशासनः सन्नित्यर्थः । आ शशाङ्कतपनार्णवस्थितेः शशा तपनार्णवानभिव्याप्य । आकल्पमित्यर्थः । अभिविधावाङ् । 'भङ्मर्यादाभिविध्योः' इति विकल्पादसमासः । भूयसीर्भुवो देयभूमीः विप्रसाद्विप्राधीनाः । 'देये वा च' इति चकारात्सातिप्रत्ययः । अकृत कृतवान् । दत्तवानित्यर्थः । कृञो लुङि तङ् 'उश्च' इति सिचः कित्त्वात् 'हस्वादङ्गात्' इति सकारलोपो गुणाभावश्च । पाकशासनसमानशासन इत्युपमानुप्रासयोः संसृष्टिः ॥
1