________________
चतुर्दशः सर्गः।
३४३ भ्यासदीर्घः । तेन हविःप्राशने न दीर्घ चिरभोग्यममरत्वं देवत्वमध्यगुः प्रापुः । 'इणो गा लुङि' इति गादेशः । किंच अधिकमत्यन्तमेधितौजसो वर्धितबला: सन्तः उद्धतानुहप्तान्दानवान् , असुरांश्च विजिग्यिरे जितवन्तः। विपूर्वाजयते कर्तरि लिद । 'विपराभ्यां जेः' इत्यात्मनेपदम् । अत्र विबुधानां दीर्घामरत्वासुरविजयित्वासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । एधितौजस्त्वस्य विशेषणगत्या विजयहेतुत्वाकाव्यलिङ्गं तदुत्थापितश्चामरत्वासुरविजयक्रियासमुच्चय इति संकरः। गुणक्रियायोगपद्यं समुच्चयः ॥
नापचारमगमन्वचित्क्रियाः सर्वमत्र समपादि साधनम् । अत्यशेरत परस्परं धियः मत्रिणां नरपतेश्च संपदः ॥ ३२ ॥ नापचारमिति ॥ अत्र ऋतौ क्वचित्कुत्रापि क्रियाः कर्माण्यपचारं लोपविचयविपर्यासादिदोषं नागमन् । गमेलुङि 'पुषादि-' इति च्लेरङादेशः । अनपचारे हेतुमाह-अत्र सर्व साधनं समपादि संपन्नम् । पद्यतेः कर्तरि लुङ् 'चिण् ते पदः' इति चिण् प्रत्ययः कर्मणि वा । संपादितमित्यर्थः । 'चिण् भावकर्मणोः' इति चिण्प्रत्ययः । साधनसंपत्तिमेव व्यनक्ति-अतीति । सत्रं यज्ञतत्रं येषामस्तीति सत्रिणामृत्विजाम् । 'सत्रमाच्छादने यज्ञे' इत्यमरः । धिय उत्तरोत्तरप्रयोगविज्ञानानि । तदुक्तम्-'आचतुर्थात्कर्मणोऽन्ते समीक्षेतेदं करिष्यामी'ति । तथा नरपते राज्ञः संपदः पदार्थसमृद्धयश्च परस्परमत्यशेरतातिशयितवत्यः । उभयेऽप्यतिसमग्रा इत्यर्थः । ज्ञानद्रव्ये हि क्रियासाधने तत्संपन्नस्य कुतः क्रियापचार इति भावः । अत्रानपचारवाक्यार्थस्य साधनसंपत्तिवाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् । तस्य परस्परातिशयक्रियारूपधर्मसाम्यगम्यौपम्यकेवलप्रकृतधीसंपदोचरया तुल्ययोगितयोजीवितेत्यनयोरङ्गाङ्गिभावेन संकरः ॥
दक्षिणीयमवगम्य पतिशः पतिपावनमथ द्विजवजम् । दक्षिणः क्षितिपतिळशिश्रणदक्षिणाः संदसि राजसूयकीः॥३३॥ दक्षिणीयमिति ॥ अथानन्तरं दक्षिण औदार्यवान् । 'दक्षिणे सरलोदारौ' इत्यमरः । क्षितिपती राजा । दक्षिणामहंतीति दक्षिणीयः । 'दक्षिणीयो दक्षिगाहस्तत्र दक्षिण्य इत्यपि' इत्यमरः । 'कडङ्गरदक्षिणाच्छ च' इति छप्रत्ययः । तं पङ्क्तेः स्वाधिष्टितायाः पावनं पावयितारं पतिपावनम् । पावयतेः कर्तरि ल्युट । द्विजवज ऋत्विग्वर्गमित्यर्थः । पङ्क्तिशः पतयनुसारेणाधिगम्य प्राप्य सदसि राजसूयकीः । राजसूयकाण्डोक्ता इत्यर्थः । दक्षिणाशब्दः स्फुटार्थः । राजसूये. त्यत्र दक्षिणार्थ एव ढको विधानात् । व्यशिश्रणद्विश्राणयति स्म । वितीर्णवा. नित्यर्थः । 'विश्राणनं वितरणम्' इत्यमरः । 'श्रण दाने' इति धातोर्लुङ् णौ चङयुपधाया हूस्वः' । वृत्त्यनुप्रासोऽलंकारः ॥
१ सपदि' इति पाठः.