SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ विंशः सर्गः। ५०३ मध्ये स्थिता घोरा भीमा, आयता च बाहुदण्डो नासा नासिकेव यस्मिंस्तत्तथोक्तम् । कुपितस्यान्तकस्य मृत्योरुन्नतं ययुगं तद्वदीमा आकृतिर्यस्य तत्तस्यः चैद्यस्य कार्मुकं जनेन ददृशे दृष्टम् । सभयविस्मयमिति भावः । उपमालंकारः ।। तडिदुज्ज्वलजातरूपपुढेः खमय श्याममुखैरभिध्वनद्भिः। जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः॥१३॥ तडिदिति ॥ तडिद्वदुज्वला दीप्ता जातरूपस्य हेम्नः पुङ्खाः कर्तों येषां तैः । अयोवत् श्याममुखैः श्यामाग्रैरभिध्वनद्भिर्ध्वनिभिः स्वनस्पक्षैर्गद्भिश्च रंहसा वेगेन पतनिर्धावद्भिः संहतिशालिभिः सङ्घवाहिभिः शरौधैर्जलदैरिव खमाकाशं पिदधे पिहितम् । कर्मणि लिट् । 'वष्टि भागुरिरल्लोपमवाप्योरुपसगयोः' इत्यपेरकारलोपः । उपमालंकारः ॥ शितशल्यमुखावदीर्णमेघक्षरदम्भःस्फुटतीव्रवेदनानाम् । स्रवदमुततीव चक्रवालं ककुभामौर्ण विषुः सुवर्णपुङ्खाः ॥१४॥ शितेति ॥ सुवर्णपुङ्खाः सुवर्णकर्तरिकाः शराः शितैर्निशितैः शल्यमुखैः फलाप्रैः अवदीर्णा अवभिन्ना ये मेघास्तेभ्यः क्षरता स्रवता अम्भसा स्फुटा व्यक्ता तीवा वेदना यासां तासां ककुभां संबन्धि स्रवन्ती अस्रुततिरस्रुसंततिर्यस्य तदिव शरप्रहारवेदनया रुददिव स्थितमित्युप्रेक्षा। चक्रवालं मण्डलमौर्ण विषुः राच्छादयामासुः । अर्णोतेलुंडीडागमे तस्य 'विभाषोर्णोः' इति डिवाभावपक्षे 'ऊोंतेर्विभाषा' इति वृद्धि विकल्पात्पक्षे गुणः अजादित्वात् 'आटश्च' इति वृद्धिः॥ अमनोरमतां यती जनस्य क्षणमालोकपथानमःसदां वा । रुरुधे पिहिताहिमद्युतियोविशिखैरन्तरिता च्युता धरित्री॥१५।। अमन इति ॥ विशिखैश्चैद्यबाणैः कर्तृभिः पिहिताहिमधुति स्तिरोहितार्का । अत एवामनोरमतां यती प्रामुवती । इणः शतरि 'उगितश्च' इति ङीप् । धौराकाशं जनस्य भौमलोकस्य आलोकपथादृष्टिमार्गारक्षणं रुरुधे रुद्धा । रुधेः कर्मणि लिट् । अत्र पथो रोधापायत्वात् 'ध्रुवमपाये-' इति अपादानत्वे पञ्चमी । तथान्तरिता च्युता तिरोहिता नष्टा अत एवामनोरमतां यती धरित्री नमः सदां वा आलोकपथागुरुधे । वाकारो जनसमुच्चयार्थः। अत्र धुधरियोः प्रकृ. तयोरेव रोधाख्यतुल्यधर्मयोगात्तुल्ययोगिताभेदौ ताभ्यामेव जनस्य नभःसदा यथासंख्यान्वयाद्यथासंख्यालंकारः सापेक्षतया संकीर्यते ॥ विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य । शरजालमयं समं समन्तादुरु स व नराधिपेन तेने ॥ १६ ॥ विनिवारितेति ॥ नराधिपेन सकलस्यापि मुरद्विषो हरेबलस्य सैन्यस्य विनिवारितो भानुतापो येन तदेकमद्वितीयं शरजालमयं बाणवृन्दात्मकं उरु
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy