________________
११२
शिशुपालवधे नवनगवनलेखाश्याममध्याभिराभिः
स्फटिककटकभूमिर्नाटयत्येष शैलः। अहिपरिकरभाजो भासनैरङ्गरागै
रधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥ ६५ ॥ नवेति ॥ एष शैलो रैवतको नवया नगवनलेखया तरुवनपतया श्यामो मध्यो मध्यभागो यासां ताभिराा मेः स्फटिकानां कटकभूभिस्तटप्रदेशैः करणैरहिरेव परिकरो गात्रिकाबन्धस्तं भजतीति तस्याहिपरिकरभाजः। 'भवेत्परिकरो वाते पर्यङ्कपरिवारयोः । प्रगाढे गात्रिकाबन्धे विवेकारम्भयोरपि' इति विश्वः । 'भजो ण्विः' । भास्मनैर्भसमयैः । वैकारिकोऽण् प्रत्ययः। अनिति प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपो न । अङ्गरागैरनुलेपनैरधिगतधवलिम्नः प्राप्तधावल्यस्य शूलं पाणौ यस्य तस्य शूलपाणेरीश्वरस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' । अभिख्यां शोभाम् । 'अभिख्या नामशोभयोः' इत्यमरः । 'आतश्चोपसर्गे' इत्यप्रत्ययः । नाटयत्यनुकरोति । निदर्शनालंकारः। मालिनी वृत्तमेतत् ॥
दधद्भिरभितस्तटौ विकचवारिजाम्बू नदै
विनोदितदिनक्लमाः कृतरुचश्च जाम्बूनदैः । निषेव्य मधु माधवाः सरसमत्र कादम्बरं
हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥ ६६ ॥ दधद्धिरिति ॥ अनाद्रौ माधवस्य इमे माधवा यादवाः विकचानि वारिजानि येषु तान्यम्बूनि ययोस्तौ विकचवारिजाम्बु अभित उभयतस्तटौ दधद्भिर्नः दैरम्बुप्रवाहैः । प्राक्स्रोतसो नद्यः, प्रत्यक्स्रोतसो नदाः नर्मदां विनेत्याहुः । विनोदितो दिनक्लमो येषां ते । विहारापनीताहिकसंतापा इत्यर्थः । किंच जाम्बू. नदस्य विकारैर्जाम्बूनदैः कनकभूषणैः कृतरुचो जनितशोभाः सन्तः रसवत्स्वादवत् । 'रसो गन्धरसे स्वादे' इति विश्वः । कादम्ब इक्षुः । 'कादम्बः कलहंसेक्ष्वोः' इति विश्वः । कादम्बं राति रलयोरभेदालाति प्रकृतित्वेनादत्त इति कादम्बरमैक्षवम् । 'पानसं द्राक्षमधुकं खाजूंरं तालमैक्षवम्' इति स्मरणात् । 'आतोऽनुपसर्गे कः' । मधु मद्यम् । एवं च मधुकादम्बरशब्दयोः सामान्यविशेषपरत्वादपौनरुक्त्यम् । निषेव्य पीत्वा । क्षत्रियाणां पैष्ट्या एव निषेधादिति भावः । रतये सुरतार्थ रहः प्रियतमानां प्रेयसीनामङ्गादेवाङ्गकाद्गाबादम्बरं वस्त्रं हरन्ति । यादवाश्चेह मधुपानरतोत्सवैर्विस्रब्धं विहरन्तीति भावः । पृथ्वीवृत्तम् । 'जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः' इति लक्षणात् ॥
दर्पणनिर्मलासु पतिते घनतिमिरमुषि
ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।