________________
चतुर्थः सर्गः।
११३ बीडमसंमुखोऽपि रमणैरपहृतवसनाः
काञ्चनकं दरासु तरुणीरिह नयति रविः ॥६७॥ दर्पणेति ॥ इहाद्रौ रविर्दर्पणनिर्मलासु पुरः रौप्यभित्तिषु । काञ्चनकंदराग्रवर्तिरजतसानुषु पतिते संक्रान्ते घनं सान्द्र यत्तिमिरं तन्मुष्णाति हरतीति तन्मुद । विप् । तस्मिक्ष्योतिषि स्वतेजसि काञ्चनकंदरासु मुहुः प्रतिफलति संमूर्च्छति सति रमणैरपहृतवसनास्तरुणीरसंमुखोऽपि कंदरानभिमुखोऽपि व्रीड अपम् । यद्यपि 'गुरोश्च हलः' इति स्त्रियाभप्रत्ययः । अत एव 'मन्दाक्षं हीस्त्रपा ब्रीडा' इत्यमरः। तथापि तत्र स्त्रीत्वाविवक्षायां बाहुलकत्वान्नपुंसकत्वं च । अत एव 'अविधौ गुरोः स्त्रियां बहुलविवक्षा' इति वामनः । नयति प्रापयति । 'नीवह्योहरतेश्चैव' इति द्विकर्मकता । यस्मिन् सुवर्णकंदरासु क्रीडाथ प्रविष्टाः स्त्रियोऽन्धकार इति कृत्वा पुरुषैरपहृतवस्त्राः सत्यः । पुरःस्थितरौप्यभित्तितेजसामन्तःप्रतिबिम्बवत्प्रकाशे सति सलज्जा इति भावः। अत्र काञ्चनकंदराणामसंमुखार्कज्योतिःप्रतिफलनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः । वंशपत्रपतितं वृत्तम् । 'दिङ्मुनि वंशपत्रपतितं भरनभनलगैः' इति लक्षणात् ॥
अनुकृतशिखरौघश्रीभिरभ्यागतेऽसौ
त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः। द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं
हलधरपरिधानश्यामलैरम्बुवाहैः ॥ ६८ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यङ्के रैवतक
वर्णनं नाम चतुर्थः सर्गः ॥ ४ ॥ अनुकृतेति ॥ असावुच्चैरुन्नतोऽद्रिः रैवतकः त्वयि अभ्यागते सति अनुकृता शिखरौघाणां श्रीयस्तैस्तथोक्तैः । शिखरौघभ्रमकारिभिरिति भावः । अत एवात्र श्रीरिव श्रीरिति निदर्शनया भ्रान्तिमदलंकारो व्यज्यते । द्रुतमरुता शीघ्रमारुतेबोपनुन्नैः प्रेरितैः अत एव सहेलं सलीलमुन्नमद्भिरुत्पतद्भिः। धरतीति धरः । पचाद्यच् । हलस्य धरो हलधरो बलभद्रः तस्य परिधानान्यम्बराणि तद्वच्छ्यामलैः श्यामैरम्बुवाहैर्निमित्तेन सरभसमभ्युत्तिष्ठतीव प्रत्युत्थानं करोतीवेति क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा । विशिष्टमेघोन्नमनक्रियया प्रत्युत्थानक्रियोत्प्रेक्षणात्सा चोक्तनिदर्शनानुप्राणितेति संकरः । शाब्दस्तु वृत्त्यनुप्रासः । मालिनी वृत्तम् । “ननमययुतेयं मालिनी भोगिलोकैः” इति ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध.
काव्यव्याख्याने सर्वकषाख्ये चतुर्थः सर्गः ॥ ४ ॥