________________
११४
शिशुपालवधे
पञ्चमः सर्गः। इत्थं गिरः प्रियतमा इव सोऽव्यलीकाः
शुश्राव सूततनयस्य तदा व्यलीकाः। रन्तुं निरन्तरमियेष ततोऽवसाने
__तासां गिरौ च वनराजिपटं वसाने ॥१॥ इत्थमिति ॥ स हरिरित्थमनेन प्रकारेण । 'इदमस्थमुः' इति थमुप्रत्ययः । अव्यलीका अप्रियरहिताः । 'व्यलीकं त्वप्रियेऽनृते' इत्यमरः । प्रियतमाः प्रेयस्य इव स्थिताः । कान्तासंमिता इत्यर्थः । व्यलीका विगतानृताः सत्यः सूततनयस्य सारथिकुमारस्य दारुकस्य गिरस्तदा शुश्राव । ततः श्रवणानन्तरं तासां गिरामवसाने समाप्तौ निरन्तरं नीरन्ध्र वनराजिरेव पटस्तं वसाने आच्छादयति । 'वस आच्छादने' इति धातोः कर्तरि लटः शानजादेशः । गिरौ रैवतकाद्रौ रन्तुं क्रीडितुमियेष । तत्र वसतिं कर्तुमिच्छति मेत्यर्थः । उपमायमकयोः संसृष्टिः । सगैsस्मिन्वसन्ततिलका वृत्तम् । 'उक्ता वसन्ततिलका तभजा जगौ गः' इति ॥
तं सद्विपेन्द्रतुलितातुलतुङ्गशृङ्ग
मभ्युल्लसत्कदलिकावनराजिमुच्चैः । विस्ताररुद्धवसुधोऽन्वचलं चचाल
लक्ष्मी दधत्प्रतिगिरेरलघुर्बलौघः ॥२॥ तमिति ॥ कदल्य एव कदलिकाः वैजयन्त्यो रम्भातरवश्च । 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः । अभ्युल्लसन्त्यः कदल्यो वैजयन्त्यो वनराजय इव यस्य सः, अन्यत्र रम्भावनपतयो यस्य तमिति योज्यम् । उच्चैरुन्नतः विस्तारेण रुद्धवसुधो व्याप्तभूमिः । अत एव प्रतिगिरेलक्ष्मी दधत् । स्वयमप्यन्यो गिरिरिव स्थित इत्यर्थः । अलघुर्महान्स बलौघः सेनासङ्घो द्विपेन्द्रैस्तुलितान्यतुलान्यप्रतिमानि द्विपेन्द्रव्यतिरिक्तप्रतिमारहितान्युत्तुङ्गशृङ्गाणि यस्य तं तथोक्तमन्वचलं रैवतकमनु चचाल । तं प्रति ययावित्यर्थः । 'अनुर्लक्षणे' इति कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । अत्र प्रतिगिरेः कस्यचिदप्रसिद्धत्वादिरिधर्मयोगी बलौघः प्रतिगिरेलक्ष्मीमिव लक्ष्मी दधातीति निदर्शनामुखेन प्रतियोगित्वेनोत्प्रेक्ष्यते इत्युत्प्रेक्षैवेयं श्लेषानुप्राणितेति संकरः ॥
भास्वत्करव्यतिकरोल्लसिताम्बरान्ताः
सापत्रपा इव महाजनदर्शनेन । संविव्युरम्बरविकासि चमूसमुत्थं
पृथ्वीरजः करभकण्ठकडारमाशाः ॥३॥