________________
चतुर्थः सर्गः।
१११ · प्रीत्यै इति ॥ इहाद्रौ युवतयश्च युवानश्च तेषां यूनाम् । 'पुमान्स्त्रिया' इत्येकशेषः । प्रीत्यै व्यवहिततपनास्तिरोहितार्काः । अत एव सुरतान्येव क्रीडास्ताभिर्य आयासो व्यायामस्तेन यः श्रमः खेदः । 'श्रमः खेदोऽध्वरत्यादेः' इति लक्षणात् । तस्य शमे वारणे पटवः समर्था जलदाः प्रौढध्वान्तं मेघावरणादादान्धकारं दिनं दिवसं दोषां रात्रिमात्मानं मन्यत इति दोषामन्यं रात्रिमानिनं विदधति । मेघावरणमहिम्ना दिवसः स्वयमप्यात्मानं रात्रिं मन्यते, किमुतान्य इत्यर्थः । दोषेत्यव्ययं तदुपपदान्मन्यतेर्धातोः 'आत्ममाने खश च' इति खश प्रत्ययः । इह यूनां दोषावदिवापि विस्रम्भं विहाराः संभवन्तीति भावः । भ्रमरविलसितं वृत्तम् । 'म्भौ न्लौ गः स्याद्रमरविलसितम्' इति लक्षणात् ॥
भग्नो निवासोऽयमिहास्य पुष्पैः
सदानतो येन विषाणिनागः। . तीव्राणि तेनोज्झति कोपितोऽसौ
सदानतोयेन विषाणि नागः ॥ ६३ ॥ - भग्न इति ॥ इहादावस्य नागस्य निवास आश्रयः सदा पुष्पैरानतो नम्रोऽयं न गच्छतीत्यगो वृक्षः दानतोयैर्मदोदकैः सह वर्तते यस्तेन सदानतोयेन । मत्तेनेत्यर्थः । येन विषाणिना दन्तिना भग्नस्तेन विषाणिना कोपितः कोपं प्रापितोऽसौ नागः सर्पस्तीवाणि विषाणि गरलान्युज्झति वमति । परप्रतीकाराक्षमस्य क्रोधः स्वाश्रयमेव व्याहन्तीति भावः ॥
प्रालेयशीतमचलेश्वरमीश्वरोऽपि
सान्द्रेभचर्मवसनावरणोऽधिशेते । सर्वर्तुनितिकरे निवसन्नुपैति
न द्वन्द्वदुःखमिह किंचिदकिंचनोऽपि ॥ ६४ ॥ प्रालेयेति ॥ ईश्वरः शिवोऽपि किमुतान्य इति भावः । सान्द्रं यदिभचर्म तदेव वसनं तदेवावरणं छादनं यस्य सः तथा सन् । न त्वनावरणो नापि शिथिलावरण इति भावः । प्रलयादागतं प्रालेयं हिमम् । 'तत आगतः' इत्यणि 'केकयमित्रयुप्रलयानां यादेरियः' इति यशब्दस्येयादेशः । तेन शीतं शीतलमचलेश्वरं हिमवन्तमधिशेते। तस्मिन्शेत इत्यर्थः । 'अधिशीस्थासां कर्म' इति कर्मत्वम् । सर्वर्तुभिर्निर्वृतिकरे सदासुखकर इहाद्रौ निवसन् पुनर्नास्ति किंचनास्थेत्यकिंचनो निःस्वोऽपि । उच्चावचेत्यादिना मयूरव्यंसकादिषु निपानतात्तत्पुरुषः । किंचिदल्पमपि द्वन्द्वदुःखं शीतोष्णदुःखं नोपैति । नित्यं संनिहितानामृतूनामन्योन्यदोषनिवारकत्वादिति भावः । 'द्वन्द्वं युग्महिमोष्णादि मिथुनं कलहो रहः' इति वैजयन्ती । अत्रोपमानाद्धिमाचलादुपमेयस्याधिक्यवर्णनाव्यतिरेकः ॥