________________
शिशुपालव
मरविश्वप्रकाशादिवाक्य गतनियतख्यर्थताविरोधः । तासां वाल्मीकेर्गिरां साधर्म्य सादृश्यं दधति । अत्र पवनभुवा जवेनेत्यत्रैकवृन्तावलम्बिफलद्वयवदभग्नैकपादगतत्वेनार्थद्वयप्रतीतेरर्थश्लेषः । अन्यत्र पदभङ्गेनार्थद्वयप्रतीतेर्जतुकाष्ठवच्छब्दयोरेव मिथः श्लिष्टत्वाच्छब्दश्लेष इत्युभयसाहित्यादुभयश्लेषोऽयं प्रकृताप्रकृतगोचरः, उपमा त्वङ्गमिति संकरः ॥
इह मुहुर्मुदितैः कलभैरवः प्रतिदिशं क्रियते कलभैरवः । स्फुरति चानुवनं चमरीचयः कनकरत्नभ्रुवां च मरीचयः ॥ ६० ॥
इहेति ॥ इहाद्रौ मुदितैरिच्छाविहारसंतुष्टैः कलभैः करिपोतैः । 'कलभः करिशावकः' इत्यमरः । प्रतिदिशं दिशि दिशि । यथार्थेऽव्ययीभावः । 'अव्यभावे शरत्प्रभृतिभ्यः' इति समासान्तो ऽच्प्रत्ययः । कलश्वासौ भैरवश्च कलभैवो मधुरभीषणः । विशेषणयोरपि कुपाणिखञ्जवदैच्छिकोपसर्जनत्वविवक्षया विशेषणसमासः । रवो बृंहणध्वनिर्मुहुः क्रियते । अनुवनं वने वने चमरीचयः चमरीमृगसङ्घः स्फुरति । किंच कनकरत्लानां या भुवस्तासां मरीचयः किरणाश्च स्फुरन्ति । समृद्धिमद्वस्तुवर्णनादुदात्तालंकारे यमकस्याभ्युच्चयः ॥
त्वक्साररन्ध्रपरिपूरणलब्धगीति
रस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।
कस्तूरिकामृगविमर्दसुगन्धिरेति
रागीव सक्तिमधिकां विषयेषु वायुः ।। ६१ ।।
त्वगिति । अस्मिन्नौ त्वचि सारो येषां ते त्वक्सारा वंशाः । 'वंशे त्वक्सारकर्मारत्वचि सारतृणध्वजाः' इत्यमरः । तेषां रन्ध्राणि तेषां परिपूरणेन ध्मापनेन लब्धा गीतिर्गान सुखं येन सः । मृदितानि संमृष्टानि पक्ष्मलानि लोमशानि रल्लकानां कम्बलमृगाणां, कम्बलानां वाङ्गानि शरीराणि येन सः । 'रल्लकः कम्बलमृगे कम्बले परिकीर्तितः' इति वैजयन्ती । एतेन स्पर्शसुखमुक्तम् । कस्तूरिकामृगाणां विमर्देन संघर्षेण सुगन्धिः शोभनगन्धः । यद्यपि गन्धस्येत्वे तदेकान्तग्रहणं कर्तव्यमित्युक्तम्, तथापि 'निरङ्कुशाः कवय' इत्यपर्यनुयोगः । असावेवंभूतो वायू रागीव कामीव विषयेषु प्रदेशेषु च । 'विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च' इति विश्वः । अधिकां सक्तिं व्यासक्तिमेति गच्छति ॥ प्रीत्यै यूनां व्यवहिततपनाः
प्रौढध्वान्तं दिनमिह जलदाः । दोषामन्यं विदधति सुरतक्रीडायासश्रमशमपटवः ॥ ६२ ॥
११०