________________
चतुर्थः सर्गः ।
या विभर्ति कलवल्लकीगुणस्वानमानमतिकालिमाऽलया । नात्र कान्तमुपगीतया तया खानमा नमति कालिमालया ॥५७॥ येति ॥ अत्राद्रावत्यन्तः कालिमा काष्र्ण्यं यस्याः सातिकालिमा । अतिश्यामेयर्थः । न विद्यते लयो लयनं क्वचिदवस्थानं यस्याः सा अलया । भ्रमन्ती - त्यर्थः । अत एव सस्वनेति भावः । या अलिमाला कलोsव्यक्तमधुरः वल्लकीगुणस्वानस्य वीणातन्त्रीशब्दस्य मानमुपमानं बिभर्ति । तत्रीवनतीत्यर्थः । उपमालंकारः । उपगीतया समीपे गातुं प्रवृत्तयैव, न तु पूर्वं गायन्त्येवेति भावः । 'आदिकर्मणि क्तः कर्तरि च' इति क्तः । तयालिमालया भृङ्गावल्या स्वानमा सुखेनानमयितुमात्रष्टुं शक्या 'ईषदुस्' इत्यादिना खल्प्रत्ययः । का वा स्त्री कान्तं प्रियं न नमति । सर्वापि मानं विहाय कान्तं सद्यः प्रणमत्येव । तथोद्दीपकत्वाद्गानस्येत्यर्थः । रथोद्धृता वृत्तम् । 'रो नराविति रथोद्धता लगौ' इति लक्षणात् ॥
सायं शशाङ्ककिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः । अर्कोपलोल्लसितवह्निभिरहि तप्ता
स्तीव्रं महाव्रतमिवात्र चरन्ति वप्राः ।। ५८ ।
१०९
सायमिति ॥ इहाद्रौ वप्राः सानवः । 'वप्रोऽस्त्री सानुमानयोः' इत्यमरः । सायं रात्रौ शशाङ्ककिरणैराहतेभ्यश्चन्द्रकान्तेभ्यो निस्यन्दिना प्रस्त्राविणा नीरनिकरेण जलपूरेण कृताभिषेकाः कृतस्नानाः | अह्नि अर्कोपलेभ्यः सूर्यकान्तेभ्य उल्लसितैरुत्थितैर्वह्निभिस्तप्ताः सन्तस्तीत्रमुग्रं दुश्वरं महाव्रतं महातपश्चरन्तीवेत्युत्प्रेक्षा ॥ एतस्मिन्नधिकपयःश्रियं वहन्त्यः
संक्षोभं पवनभुवा जवेन नीताः । वाल्मीकेररहितरामलक्ष्मणानां
साधर्म्यं दधति गिरां महासरस्यः ।। ५९ ।। एतस्मिन्निति ॥ एतस्मिन्नद्रावधिकपयःश्रियमधिकां जलसमृद्धिं वहन्त्यः, अन्यत्र तु अधिकाः कपयः सुग्रीवादयो वर्ण्यत्वेन यासु ताः अधिकपयः श्रियं गुणालंकारादिशोभां वहन्त्यः पवनाद्भवतीति पवनभूस्तेन पवनभुवा वायुजन्येन जवेन वेगेन संक्षोभं चलनं नीताः, अन्यत्र तु जवेन जविना । 'जवो जविनि वेगे स्यात्' इति विश्वः । पवनभुवा हनुमता संक्षोभमौद्धत्यं नीताः । हनुमद्वेगवर्णनया प्रागल्भ्यं नीता इत्यर्थः । वाक्पक्षे सर्वत्र पष्ट्या विपरिणामः कार्यः । महासरस्यो महासरांसि अरहिताववर्जितौ रामलक्ष्मणौ याभिस्तासाम्, अन्यत्र तु रामो रमणः अरहितरामा अवियुक्तरामाः लक्ष्मणाः सारसयोषितो यासु ताः । केचि - त्वरहितरामा अवियुक्तस्त्रीका: लक्ष्मणाः सारसा इति पुंपक्षिपरत्वेन व्याचक्षते । तेषां 'हंसस्य योषिद्वरटा सारसस्य तु लक्ष्मणा' । 'लक्ष्मणौषधिसारस्यो:' इत्याद्यशिशु० १०
1