________________
उपोद्घातः 1
पाठान्तराणि च क्वचिद्दत्तानि । ग्रन्थान्ते चैकोनविंशसर्गस्थगोमूत्रिकामुरजचक्रबन्धादिश्लोकानां चित्राणि, टीकायां मल्लिनाथेनोद्धृतानां ग्रन्थग्रन्थकर्तॄणां तत्तत्स्थलोल्लेखपूर्वकं नाममालां, ग्रन्थस्थनिखिल श्लोकानामकारादिवर्णक्रमेणानुक्रमणीं च न्यस्तवानस्मि । शोधनसमये च जयपुरराजकीय पाठशालायां व्याकरणाध्यापकः पण्डितशिवदत्तशर्मा दाधीचः कतिपयस्थलेषु प्रायो व्याकरणविषयकं टिप्पणमुट्टङ्कितवान् कृतवश्च शोधनेऽपि यत्साहाय्यं तत्तदुपकारं मुहुः स्मरामि ।
एवमेतद्ग्रन्थमुद्रणे प्रयत्नमास्थितस्यापि मम मतिमान्द्यादृष्टिदोषात्प्रमादाद्वा समुत्पन्नाननल्पानप्यवद्यानुपेक्ष्य काव्यगुणगौरवेणैव गुणैकपक्षपातिनो निर्मत्सरा विद्वांसस्तोमेष्यन्ति, भविष्यन्ति च परमेश्वरानुग्रहात्स फलसमीहिता इति भृशमाशास्ते
जयपुर राजधानी ।
प्रथम अधिक भाद्रशुक्ल ५ संवत् १९४७.
विदुषामनुचरो दुर्गाप्रसादः ।