________________
त्रयोदशः सर्गः।
३२३ अमूः पौरयोषितः न पश्यतीति हेतोरिति विश्वासादित्यर्थः । अत एव गम्योस्प्रेक्षा । मदनेन वीतभयमधिष्टिता आक्रान्ताः । अत्यारूढमदना इत्यर्थः । पुरोविलासिनीः स हरिः क्षणमीक्षते स्म । सविस्मयमिति भावः ॥ विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा॥४०॥
विपुलेति ॥ युगक्षये कल्पान्ते । सागरे शेते इति सागरशयस्य । 'अधिकरणे शेतेः' इत्यच्प्रत्ययः । ‘शयवासवासिष्वकालात्' इति विकल्पादलुगभावः । यस्य हरेविपुलेन कुक्षिणा भुवनानि पपिरे पीतानि । पिबतेः कर्मणि लिट् । स हरिरेकतमया पुरस्त्रिया पुनः कयाचित्पौराङ्गनया मदविभ्रमेण मदविकारेणासकलया अलमग्रया एकया दृशा पपे पीतः । सतृणं इष्ट इत्यर्थः । कुक्षिकोणनिविष्टनिखिलविष्टपस्य हरेर्महत आधेयस्यात्यल्पतरैककान्ताकटाक्षकोणाधारत्वोक्त्या चमत्कारादधिकालंकारः । 'आधाराधेययोरानुरूप्याभावोऽधिको मतः' इति लक्षणात् । अयं च तात्कालिकविकारात्मा विलासाख्यो भावो यत्कटाक्षवीक्षणम् । 'तात्कालिकविकारः स्याद्विलासोऽङ्गक्रियादिपु' इति दशरूपकात् ॥ अधिकोन्नमदनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना । अभिकृष्णमङ्गलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ॥४१॥
अधिकेति ॥ काचन कान्ता अभिकृष्णं कृष्णाभिमुखम् । आभिमुख्येऽव्ययीभावः । अधिकं भुजोन्नमनादरमुन्नमन्धनः कठिनः पयोधरः स्तनो यस्याः सा मुहुः प्रचलतो नृत्यतः कलापिनो बर्हिण इव कलो मधुरः शङ्खकस्वनो वलयध्वनिर्यस्याः सा सती । 'शङ्खकं वलये कम्बौ' इति विश्वः । अङ्गुलिमुखेनाङ्गुल्यग्रेणकस्य कर्णस्य विवरं रन्ध्र द्रुतं शीघ्रं व्यघट्टयत् । कण्डूविनोदार्थमिवाताडयत् । वस्तुतस्तु भावाविष्करणार्थमेवेति भावः । अयं च पूर्ववद्विलास एव । कलापिकलेत्युपमा ॥ परिपाटलाजदलचारुणासकृचलिताङ्गुलीकिसलयेन पाणिना। मशिरःप्रकम्पमपरा रिपु मधोरनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥४२॥
परीति ॥ अपरा स्त्री । परिपाटलाजदलचारुणा रक्ताजपत्ररुचिरेण असकृन्मुहुश्चलितान्यङ्गुल्यः किसलयानीवाङ्गुलीकिसलयानि यस्य तेन पाणिना सशिरःप्रकम्प शिरःकम्पयुक्तं यथा तथा मधो रिपुं हरिमनुदीर्णवर्णमनुच्चारिताक्षरम् अत एव निभृतार्थं परेषामविदितार्थं यत्तदनुदीर्णवर्णनिभृतार्थं यथा तथा आव. यत् परप्रकाशनभयादव्याहरन्ती चेष्टर्यवाह्वानं कृतवतीत्यर्थः । अत्रापि पूर्ववद्विलासोपमे भावालंकारौ ॥ नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना। स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्कुरमजृम्भतापरा ॥४३॥ ___ नलिनेति ॥ अपरा स्त्री नलिनान्तिके उपहितस्य पल्लवस्य श्रीरिव श्रीर्यस्य