________________
चतुर्दशः सर्गः।
३६१
च यथासंख्यमिति भावः । उदस्योद्यम्य दुस्तरायां तोयापदि जलसंकटे एकत्र समुद्रकृतायां, अन्यत्र वर्षकृतायां च मग्नस्य गोमण्डलस्य भूगोलस्य, धेनुवृन्दस्य चोद्धरणं चकार । अत्र कोलत्वबल्लवत्त्वयोः प्रकृतयोरेव श्लेषमूलाभेदाध्यवसायेन गोमण्डलोद्धरणस्य दंष्ट्राभुजोद्यमनस्य च साम्यादौपम्यगम्यतायां तुल्ययो. गिता सती यथासंख्येन संकीर्यते । इन्द्रवज्रा वृत्तम् । 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इति लक्षणात् ॥ एवं देवं स्तुत्वानन्तरं कर्तव्यमुपदिशतिधन्योऽसि यस्य हरिरेष समक्ष एव
दूरादपि क्रतुषु यज्वभिरिज्यते यः। दत्त्वाघमत्रभवते भुवनेषु याव
संसारमण्डलमवाप्नुहि साधुवादम् ॥ ८७॥ धन्योऽसीति ॥ धनं लब्धा धन्यः पुण्यवानसि । 'सुकृती पुण्यवान्धन्यः' इत्यमरः । 'धनगणं लब्धा' इति यत्प्रत्ययः । यस्य ते एष हरिः समक्ष एव अक्षणोः समीप एव । पुरत एवेत्यर्थः । स्थित इति शेषः । सामीप्येऽव्ययीभावः । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इति समासान्तः । अत एव 'तृतीयास. प्सम्योर्बहुलम्' इति सप्तम्या अमभावः। अन्यत्र को विशेषस्तत्राह-यो हरिदूरादपि परोक्षेऽपि ऋतुषु यागेषु यज्वभिर्विधिवदिष्टवद्भिः। 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजो निप्' इति कनिष्प्रत्ययः। इज्यते पूज्यते स ते प्रत्यक्ष इति धन्यस्त्वमित्यर्थः । फलितमाह-अत्रभवते पूज्यायेत्यर्थः । 'पूज्यस्तत्रभवान्' इति सज्जनः । इतरेभ्योऽपि दृश्यते' इति सार्वविभक्तिके बलप्रत्यये सुप्सुपेति समासः । अर्घ पूजां दत्त्वा यावत्संसारमण्डलं वर्तते तावदिति शेषः । भुवनेषु साधुर्वादः शब्दस्तं साधुवाद साधुसमाख्यामवाप्नुहि । लभस्वेत्यर्थः । अत्र राज्ञो धन्योऽसीति विशेषणगत्या यस्येत्यादिवाक्यार्थहेतुत्वात्पदार्थहेतुकं काध्यलिङ्गमलंकारः । वसन्ततिलका वृत्तम् ॥
भीष्मोक्तं तदिति वचो निशम्य सम्य- क्साम्राज्यश्रियमधिगच्छता नृपेण । दर्तेऽर्थे महति महीभृतां पुरोऽपि
त्रैलोक्ये मधुभिदभूदनर्घ एव ॥ ८८ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्रयङ्के
श्रीकृष्णार्घदानो नाम चतुर्दशः सर्गः ॥ १४ ॥ भीष्मेति ॥ 'येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राट्' इत्यमरः । सम्राजो भावः साम्राज्यं तदेव श्रीस्तां श्रियमधिगच्छता
शिशु० ३१