________________
३६२
शिशुपालवधे भजता नृपेण युधिष्ठिरेण इतीत्थं भीष्मोक्तं तद्वचः सम्यनिशम्य श्रुत्वा । महीभृतां राज्ञां पुरोऽये महति अर्धे पूजायां दत्तेऽपि मधुभिद्धरिः त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्णादित्वात्स्वार्थे प्यञ्प्रत्ययः । तत्र त्रैलोक्ये कृष्णोऽनर्घः पूजारहित एवाभूदिति विरोधः । अमूल्य एवाभूदित्यविरोधः । 'मूल्ये पूजाविधावर्घः' इत्यमरः । अत्रार्घयोरभेदाध्यवसायाद्विरोधः, तदनध्यवसायादविरोध इति विरोधाभासोऽलंकारः । प्रहर्षिणी वृत्तम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध
काव्यव्याख्यायां सर्वकषाख्यायां चतुर्दशः सर्गः ॥ १४ ॥
पञ्चदशः सर्गः। अथ तत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम्॥१॥ अथेति ॥ अथ हरिपूजानन्तरं चेदिपतिः शिशुपालः तत्र सदसि सभायां पाण्डुसुतेन युधिष्ठिरेण विहितं मुरद्विषो हरेर्मानं पूजां नासहत । ईर्ष्या चकारेत्यर्थः । 'परोत्कर्षाक्षमा स्याद्दौर्जन्यान्मन्युतोऽपि च' इति लक्षणात् । तथा हि-मानिनामहंकारिणां मनः परवृद्धौ मत्सरि हि। परशुभद्वेषि खल्वित्यर्थः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । अस्मिन्सर्गे उद्गता वृत्तम् । 'सजसादिमे सलघुके च नसजगुरुकेऽप्यथोदता । अङ्गितभजनजला गयुताः सजसां जगौ चरणमेकतः पठेत् ॥' इति लक्षणात् ॥
पुर एव शाङ्गिणि सवैरमथ पुनरमुं तदर्चया । मन्युरभजदवगाढतरः समदोपकाल इव देहिनं ज्वरः ॥२॥ पुर इति ॥ पुरः पूर्वमेव शाहिँणि सवैरं सक्रोधममुं चैद्यं अथ पुनः अतःपरं तदर्चया हरिपूजया अवगाढतरो निबिडतरो मन्युः क्रोधः । रौदरसस्य स्थायीभाव इति भावः । देहिनं शरीरिणं समौ तुलितौ दोषोऽपथ्यसेवा काल: कर्मविपाकश्च यस्य स ज्वर इवाभजत् । उपमालंकारः ॥ अथाष्टभिरस्य गात्रारब्धक्रोधचेष्टां प्रपञ्चयतिअभितर्जयन्निव समस्तनृपगणमसावकम्पयत् । लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्रयं शिरः॥३॥ अभीत्यादि ॥ असौ चैद्यः । समस्तनृपगणमभितर्जयन्निवेत्युत्प्रेक्षा । 'तर्ज