________________
पञ्चदशः सर्गः।
३६३ भर्त्सने' चौरादिकस्यानुदात्तत्वेन प्राप्तस्य आत्मनेपदस्य चक्षिङादेशस्य ख्याजः स्थानिवद्भावानादरेण पुनर्जित्करणसामर्थ्यादनित्यत्वज्ञापनात्परस्मैपदम् । अत एव तर्जयतीत्यपि दृश्यते कविष्विति भट्टमल्लः। अशनैरतिमानं प्रकम्पितं जगअयं येन तत् त्रैलोक्यभीषणं शिरः शनैलॊलाश्चपला मुकुटमणिरश्मयो यस्मिन्कर्मणि तद्यथा तथा अकम्पयत् । क्रोधातिरेकादिति भावः ॥ स वमन्रुपाश्रु धनधर्मविगलदुरुगण्डमण्डलः। खेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥४॥ स इति ॥ रुपा रोषेणाश्रु वमन्मुञ्चन् । घनेन सान्द्रेण धर्मेण क्रोधोष्मणा विगलत्स्रवदुरु महत् गण्डमण्डलं यस्य सः। स्विद्यत्कपोल इत्यर्थः। स्वेदजलकणैः स्वेदबिन्दुभिः करालकरो दन्तुरहस्तः स चैद्यः त्रिधा नेकपोलहस्तदेशैः प्रभिन्नो मदस्रावी मत्तः । 'प्रभिन्नो मत्तः स्यात्' इति वैजयन्ती। कुञ्जर इव व्यरुचत् । रुचेः 'द्युयो लुङि' इति विकल्पात्परस्मैपदम् । एतेन स्वेदाख्यः सात्विकभाव उक्तः । उपमालंकारः ॥ ' स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः । क्षिप्तबहुलजलविन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः॥५॥
स इति ॥ राज्ञां समूहो राजकम् । 'गोत्रोक्ष-' इत्यादिना बुञ्प्रत्ययः । तदवधूतमभिभूतं येन स तथोक्तः स वेद्यो निकामं घर्मितं संजातधर्मम् । उद्भवत्स्वेदमित्यर्थः । 'धर्मः स्यादातपे ग्रीष्म उष्णस्वेदाम्भसोरपि' इति विश्वः । तारकादित्वादितच्प्रत्ययः । वपुः प्रलये अर्णवस्तस्मादुत्थितः आदिशूकर इव क्षिप्ताः प्रेरिता बहुलाः सान्द्राः जलबिन्दवो यस्मिन्कर्मणि तद्यथा तथा अभीक्ष्णमधुवत्क्रोधाद्धुवति स्म। 'धून विधूनने' इति धातोस्तौदादिकाल्लङ् । अत्रापि स्वेदः सात्विक एवोक्तः । उपमालंकारः ॥
क्षणमाश्लिपद्धटितशैलशिखरकठिनांसमण्डलः। स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥६॥
क्षणमिति ॥ घटितं सुसंहितं यच्छैलशिखरं तद्वत्कठिनमंसमण्डलं यस्य सोऽसौ चैद्यः उपहितावगाहिता । आरोपितेत्यर्थः । विधूतिः कम्पो यस्मिंस्तम् । अधिकमत्यन्तमवधूनिता कम्पिता समस्ता सकला संसत्सभा येन तं स्तम्भं क्षणं आश्लिषञ्छृिष्टवान् । तेनांसमण्डलेनाहतवानित्यर्थः । अत एव कठिनांसमण्डल इति विशेषणं च । पुषादित्वाच्लेरङादेशः । आलिङ्गनार्थत्वे तु 'श्लिष आलिङ्गने' इति
१ 'जित्त्वस्य पदद्वयार्थ कृतत्वेनाज्ञापकत्वादिदमसंगतम् । तस्मात् विचक्षण इत्यत्र युजर्थ. मावश्यकेनानुदात्तेत्वेनात्मनेपदे सिद्धे ङित्करणसामर्थ्यात् 'अनुदात्तेत्त्वलक्षणमात्मनेपद मनित्यम्' इत्यस्य सिद्धिर्वक्तव्या'.