________________
३६४
शिशुपालवधे वसादेशः स्यात् । क्रोधान्धाः किमु न कुर्वन्तीति भावः । अत्रांसकाठिन्यस्य विशेषणगत्या स्तम्भाश्लेषहेतुत्वाकाव्यलिङ्गं शैलशिखरोपमया संकीर्यते ॥
कनकाङ्गदद्युतिभिरस गमितमरुचत्पिशङ्गताम् । क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ७ कनकेति ॥ कनकस्याङ्गदयोः केयूरयोः धुतिभिः पिशङ्गतां पिङ्गलवर्णता गमितं प्रापितमिति तद्गुणालंकारः । अस्य चैद्यस्य बाहुमण्डलं क्रोधमयशिखिशिखापटलैः क्रोधाग्निज्वालाजालैः परितः परीतं परिवृतमिवारुचदित्युत्प्रेक्षा । 'शुन्यो लुङि' इति परस्मैपदम् ॥
कृतसंनिधानमिव तस्य पुनरपि तृतीयचक्षुषा । क्रूरमजनि कुटिल गुरुभ्रुकुटीकठोरितललाटमाननम् ॥ ८॥ कृतेति ॥ कुटिले ध्रुवौ यस्य तत्कुटिल । उपसर्जनस्य ह्रस्वः। गुऱ्या भृकुट्या भ्रूभङ्गेन कठोरितं भीषणीकृतं ललाटं यस्य तत् तस्य चैद्यस्याननं पुनरपि तृतीयचक्षुषा कृतसंनिधानं कृतसंसर्गमिवेत्युत्प्रेक्षा। क्रूरमजनि भयंकरमभूत् । जनेः कर्तरि लुङ् 'दीपजन-' इत्यादिना विकल्पाच्चिण्प्रत्ययः॥
अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे । दृष्टिरगणितभयासिलतामवलम्बते स समया सखीमिव ॥९॥ अतिरक्तेति ॥ अमुष्य चैद्यस्य दृष्टिः । अतिरक्तस्य भावो धर्मस्तमतिरक्तभावं रोषातिरेकादत्यरुणतामन्यत्र कर्मातिरेकादत्यनुरागितामुपगम्य प्राप्य । साहसे कृष्णादिवधरूपे, अन्यत्र युद्धे कृतमतिः सर्वथा गमिष्यामि हनिष्यामि इति च कृतनिश्चयोऽर्थनिर्धारणं मतिरिति । अगणितमविचारितं भयं शत्रोर्गुरुजनाञ्च यया सा सती समया समीपे असिलतां सखीमिवालम्बते स्म साधनत्वेन स्वीचकार । क्रोधाजिघांसया खड्गमद्राक्षीदित्यर्थः । अत्र प्रस्तुतदृष्टिविशेषणसाम्यादप्रस्तुतनायिकाप्रतीतेः समासोक्तिरुपमासंकीर्णा ॥
करकुङ्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् । त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोचकैः ॥१०॥ करेति ॥ अय चैद्यः उरुतरो महत्तरो नगाश्मवच्छैलशिलेव कर्कश इत्युपमा। तं निजमात्मीयमूरु सक्थि। 'सक्थि क्लीवे पुमानूरुः' इत्यमरः । करः कुङ्मल इवेत्युपमितसमासः । तेन संहतप्रसारिताङ्गुलिना पाणितलेनेत्यर्थः । त्रस्तो भीतः अत एव चपलं चञ्चलं चलमानेन जनेन श्रुतो भीमनादो भयंकरध्वनिर्यस्मिन्कर्मणि तद्यथा तथा उच्चकैराहत आहतवान् । अलब्धलक्ष्याः क्रोधान्धाः स्वात्मानमेव घ्नन्तीति भावः। आपूर्वाद्धन्तेर्लङ् 'आङो यमहनः' इत्यकर्मकाधिका