________________
पञ्चदशः सर्गः। रेपि 'स्वाङ्गकर्मकाच्चेति वक्तव्यम्' इत्यात्मनेपदे 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपः ॥
इति चुक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् । याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः॥११॥ इतीति ॥ इतीत्यमनेन प्रकारेण अनेन चैद्येन भृशं चुक्रुधे क्रुद्धम् । भावे लिट् । संवृतिमदपि संवृतिर्विकारगुप्तिः तद्वदपि । धीरमपीत्यर्थः । मनो महद्विप्रियमप्रियमवाप्य विकृतिं विकारं याति ननु प्राप्नोति खलु । यन्मनो निस
र्गात्स्वभावान्निरवग्रहम् । चपलमित्यर्थः । ग्रहेः खलप्रत्ययः । तदिति शेषः । किमु । विकृति यातीति किमु वक्तव्यमित्यर्थः । चपलचित्तश्चायं चैद्य इति भावः। अत्र चैद्यक्रोधस्य नन्वित्यादिवाक्यार्थहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥ एवं गात्रारब्धविकारानुक्त्वा वागारब्धान्वक्तुमुपोद्धातयतिप्रथमं शरीरजविकारकृतमुकुलवन्धमव्यथी । भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ॥१२॥ प्रथममिति ॥ न व्यथते विभेतीत्यव्यथी निर्भयः। 'जिदृक्षि-' इत्यादिना नपूर्वाड्यथतेरिनिः । असौ चैद्यः प्रथमं शरीरविकारैः पूर्वोक्तैः शिरःकम्पनादिभिः कृतो मुकुलवन्धो सुकुलप्रादुर्भावो यस्य तत् । भाविकलहस्य रणस्यैव फलस्य योगो यस्य तत् । 'अस्त्रियां समरानीकरणाः कलहविग्रहौ' इत्यमरः । कोप एव कुसुमं तत् वचनेन 'यदपूपुज' इत्यादि वक्ष्यमाणवाक्येन व्यचीकस. द्विकासयति स्म । कसेः ‘णौ चड्युपधाया ह्रस्वः' । 'दीर्घो लघोः' इत्यभ्यासदीर्घः । अत्र विकारकलहवचनकोपेषु मुकुलफलविकासकुसुमत्वरूपणात्समस्तवस्तुवर्तिसावयवरूपकम् ॥
ध्वनयन्सभामथ सनीरधनरवगभीरवागभीः। वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरामसौ ॥ १३ ॥
ध्वनयन्निति ॥ अथ सनीरघनरवगभीरवाक् । सजलमेघगर्जितगभीरस्वर इत्यर्थः । अभीः निर्भीकः असौ चैद्यः सभामास्थानं ध्वनयन्नतिरोषवशादतिनिष्टराण्यतिपरुषाणि स्फुटतराणि चाक्षराणि यस्यास्तां वाचमवदत् । धनरवगभीरेत्युपमालंकारः॥ वाचमवददित्युक्तम् , अथ तामेव प्रपञ्चयन्पञ्चभिः पाण्डवोपालम्भमाहयदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् । प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते॥१४॥ १ वल्लभेन त्वितः प्रभृति अष्टत्रिंशत्संख्याक (अयमुग्रसेन) श्लोकपर्यन्तं व्याख्यानं न कृतम् । किंतु अग्रे मल्लिनाथेन प्रक्षिप्तत्वेन निर्दिष्टा एव व्याख्याताः। १२९९ शकलिखितपुस्तके त्वेतेऽपि श्लोका उपलभ्यन्ते । तेऽपि च ।