________________
शिशुपालवधे यदित्यादि ॥ हे पार्थ पृथापुत्रेति मातृप्राधान्येनामन्त्रणं मर्मोद्धाटनार्थम् । सतामपूजितम् । सद्भिरपूज्यमानमित्यर्थः । 'मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तः । 'क्तस्य च वर्तमाने' इति षष्ठी । मुरजितं कृष्णं इह सदसि यद्यस्मादपूपुजः पूजयसि स्म । णौ चङ्युपधाया हूस्वः' । तत्तस्मान्महत्प्रेम विलसति स्फुरति । अन्यथा कथमपूज्ये पूज्यत्वाभिमान इत्यभिप्रेत्याह-जनो लोकः दयितं प्रियं जनं गुणीति मन्यते खलु । अगुणिनमपीत्यर्थः । अहो आश्चर्यम् । कृष्णः प्रेम्णा पूजितो न गुणादिति भावः । अत्र प्रेमविलसितस्योत्तरवाक्यार्थहेतुकं काव्यलिङ्गम् ॥
यदराज्ञि राजवदिहार्यमुपहितमिदं मुरद्विपि । ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ॥१५॥ यदिति ॥ अराज्ञि। अभिषेकादिराजगुणविरहिणीत्यर्थः । 'नजस्तत्पुरुषात्' इति समासान्तप्रतिषेधः । इहास्मिन्मुरद्विषि कृष्णे। अपात्रत्वद्योतनार्थमसंप्रदानवि. भक्तिनिर्देशः । राजानमहतीति राजवद्वाजाहम् । तदहमिति वतिप्रत्ययः तद्धितश्वासर्वविभक्तिः' इत्यव्ययत्वम् । यदिदमय॑मर्धार्थ द्रव्यम् । अर्हणमित्यर्थः। उपहितमर्पितं तदर्थ्यमयं कृष्णः महीशा अवनिपा वह्नय इवेत्युपमितसमासः । तेषु महीशवहिषु ज्वलत्सु सत्सु, अन्यत्र महीशा इव वह्नयस्तेषु ज्वलत्सु सत्स्वि. त्यर्थः । ग्राम्यमृगः शुनको हविरिव न भजते न प्राप्नोति । उपमालंकारः॥
अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे । निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता॥१६॥
अनृतामिति ॥ हे पार्थ, अनृतामसत्यां गिरं न गदसि न वदसीति जगति लोके पटहैर्वाद्यविशेषैः कर्तृभिर्विघुष्यसे उद्घोष्यसे । अथ च तथापि निन्धं हरिमर्चयतस्तव कर्मणा अपूज्यपूजाकरणेनैवासत्यता सत्यहीनता विकसति प्रकाशते । अनासत्यप्रसिद्धसत्याचरणयोर्विरूपयोर्घटनाद्विरूपघटनारूपो विषमालंकारः॥ तव धर्मराज इति नाम कथमिदमपष्ठ पठ्यते । भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः॥१७॥ तवेति ॥ हे पार्थ, तवेदं धर्मराज इति नाम कथमपतु असत्यमेव पठ्यते । 'अपदुःसुभ्यः स्थः' इत्यौणादिकः कुप्रत्ययः । 'अम्बाम्बगोभूमि-' इत्यादिना षत्वम् । यद्वा युक्तमेव तदित्याह-अथवा जनाः भृशमप्रशस्तमपि भौमदिनमङ्गारकवारं मङ्गलमभिदधति व्यपदिशन्ति तद्वदिदमपीत्यर्थः । लोकैरप्रशस्तं प्रशस्तशब्देन विरुद्धार्थेनापि व्यपदिश्यते तदुच्चारणदोषात्तद्वधर्मराजस्यापि ते धर्मराजव्यपदेश इति भावः । अत्र धर्मराजभौमदिनयोर्निरपेक्षवाक्यद्वये प्रतिबिम्बकरणादृष्टान्तालंकारः॥