________________
पञ्चदशः सर्गः।
३६७ यदि वार्चनीयतम एप किमपि भवतां पृथासुताः। शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमत्रितः॥१८॥ यदि वेति ॥ हे पृथासुताः कौन्तेयाः, एप शौरिर्वा । शौरिरेवेत्यर्थः । 'वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये' इति विश्वः । किमपि कथमपि भवतामर्चनीयतमो यदि पूज्यश्चेत् । तहीति शेषः । अवमानस्तिरस्कारः तस्मै तदर्थमेव । अर्थन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या । क्रियाविशेषणम् । निमत्रितैराहते. निखिलैरवनिपतिभिरिह किम् । कोऽर्थः साध्य इत्यर्थः । अत एव साधनक्रियापेक्षया करणत्वे तृतीया । अत्र गम्यमानक्रियापेक्षयापि कारकवृत्तिरिति न्यासद्योते । अत्र सकलराजनिषेधस्य पूर्ववाक्यार्थहेतुकत्वात्काव्यलिङ्गभेदः ॥ अथ त्रिभिर्भीप्मोपालम्भमाहअथ वा धर्ममसुबोधसमयमवयात वालिशाः । काममयमिह वृथापलितो हतबुद्धिरप्रणिहितः सरित्सुतः॥१९॥
अथेत्यादि ॥ अथवा बालिशा मूर्खाः । यूयमिति शेपः । सुबोधो न भवतीत्यसुबोधो दुर्बोधः समय आचारो यस्य तं धर्मं नावयात न जानीत । अवपूर्वाद्याधातोलॉटः 'तस्थस्थ-' इत्यादिना थस्य तादेशः । किंतु वृथा निष्फलं पलितं यस्य स वृथापलितः। वृथापरिणत इत्यर्थः । 'पलितं जरसा शौक्यम्' इत्यमरः। वृथात्वे हेतुः । हतबुद्धिष्टमतिरयं सरित्सुतो भीमोऽपि काममप्रणिहितोऽनवहितः प्रमतः । बालाः पार्था न जानन्तु हन्त वृद्धोऽपि न जानातीति चित्रमित्यर्थः । अत एव सत्यपि कारणे कार्यानुदयाद्विशेषोक्तिरलंकारः । तथा बालिशत्वधर्मदुर्बोधत्वयोर्विशेषणगत्या धर्मज्ञानाहेतुत्वात्काव्यलिङ्गं चेत्यनयोः सापेक्षत्वात्संकरः ॥
स्वयमेव शन्तनुतनूज यमपि गणमय॑मभ्यधाः। तत्र मुररिपुरयं कतमो यमनिन्द्यवन्दिवदभिष्टुपे वृथा ॥२०॥ स्वयमेवेति ॥ हे शन्तनुतनूज भीष्म । स्वयमेवेत्यर्थः । यमपि गणं वर्गमय॑मर्हि पूज्यम् । 'दण्डादिभ्यो यत्' इति यत्प्रत्ययः । अभ्यधा अवोचः । 'स्नातकं गुरुम्' इत्यादिश्लोक इति भावः । धाधातोर्लडिः 'गातिस्था-' इत्यादिना सिचो लुक् । तत्र स्नातकादिगणे अयं मुररिपुः कतमः । न कोऽपीत्यर्थः । मास्तु अस्तु वा अस्मदुपालम्भे को हेतुरत आह-यमिति । यं मुररिपुमनिन्द्यबन्दिवत्प्रगल्भवैतालिकवदित्युपमा । अभिष्टये मिथ्या स्तौषि । अतस्त्वमेवोपलभ्यस इति भावः । 'उपसर्गात्सुनोति-' इत्यादिना षत्वम् ॥
अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् । नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः २१ अवनीति ॥ अतिजडोऽतिमूढोऽतिशीतश्च चपलोऽस्थिरः सत्वरश्च त्वं समु.