________________
३६८
शिशुपालवधे
नतमुन्नतमवनीभृतां राज्ञां भूधराणां च गणमपहाय । न्यञ्चतीति न्यङ् तस्सिश्रीचि नीचवृत्ते, निन्ने च । 'अचः' इत्यकारलोपे 'चौ' इति दीर्घः। इहास्सिकृष्णे यद्यस्मानियतं नित्यं निरतोऽनुरक्तः प्रवणश्च स इति शेषः । निम्नं नीचं गच्छतीति निम्नगा नदी। 'डोऽन्यत्रापि दृश्यते' इति डप्रत्ययः। तस्याः सुतो भवसि स्फुटं व्यक्तम् । नीचनिरतत्वादिधर्मसंक्रमादिति भावः । उक्तं च–'न पित्र्यमनुवर्तन्ते मातृकं द्विपदाः' इति । अत्र चतुर्थपादार्थस्य पूर्ववाक्यार्थहे. तुकत्वात्काव्यलिङ्गभेदः ॥ अथ सप्तदशभिः कृष्णोपालम्भं करोतिप्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमहणम् । कृष्ण कलय ननु कोऽहमिति स्फुटमापदां पदमनात्मवेदिता २२ प्रतिपत्तुमिति ॥ हे अङ्ग, तव नृपयोग्यं राजाहमर्हणं पूजनं प्रतिपत्तुं स्वीकर्तुं न च घटते न युज्यते। नन्वहमपि राजैव कथमहणं मे न युक्तं तत्राहकृष्णेति । हे कृष्ण, अहं क इति कलय । अहं राजा न वेति निजस्वरूपमालोच. येत्यर्थः । अनालोचनेऽनर्थमाह-अनात्मवेदिता अनात्मज्ञत्वं आपदां पदं स्थानं स्फुटं खलु । सत्यमित्यर्थः । आत्मा च कंसकिङ्करस्तस्य पशुपालकत्वादिति भावः । अतो निजस्वरूपं चिन्त्यमिति हेतुमद्भावात्काव्यलिङ्गमिति ॥
असुरस्त्वया न्यवधि कोऽपि मधुरिति कथं प्रतीयते । दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥२३॥
असुर इति ॥ मधुरिति कोऽप्यसुरस्त्वया न्यवधि हतः । 'आत्मनेपदेष्वन्यतरस्याम्' इति हन्तेलङि विकल्पाद्वधादेशः। इति कथं प्रतीयते विश्वस्यते । न कथंचिदित्यर्थः । 'प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु' इत्यमरः । किंतु दण्डेन दलिता ध्वस्ता सरघा मधुमक्षिका येनेदृशस्त्वम् । 'सरघा मधुमक्षिका' इत्यमरः । अत एव मधु क्षौद्रं सूदयन्पीडयन्मधुसूदन इति प्रथसे प्रथितोऽसि । मक्षिकासूदनमेव मधुसूदनसंज्ञाप्रवृत्तिनिमित्तं, न तु मधुनाम्नो दैत्यस्य सूदनमित्यर्थः । अत्र मधुसूदनसंज्ञायां प्रसिद्धार्थनिषेधस्योत्तरवाक्यस्यान्यथा व्युत्पादनहेतुत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गम् ॥
मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः। सिद्धमबल सबलत्वमहो तव रोहिणीतनयसाहचर्यतः॥२४॥ मुचुकुन्देति ॥ हे अबल बलहीन, कुतः मुचुकुन्दो नाम कश्चिद्राजा । यस्यासुरविजयश्रान्त्या निदायमाणस्य देवतावरप्रसादान्निद्राविघातकारी दृष्टिपाताभस्मीभवति तस्य तल्पं शय्या तदेव शरणं रक्षकं यस्य तस्य । कालयवनविदावितस्येति भावः । तथा मगधपतिना जरासंधेन शातितौजसः अष्टादशकृत्वो
१'यवनपति' इति पाठः.