________________
पञ्चदशः सर्गः।
नष्टवीर्यस्य तव रोहिणीतनयस्य बलापरनाम्नो बलभदस्य साहचर्यतः साहचर्यात्सबलत्वं सिद्धम् । न तु स्वबलसंपत्त्येत्यर्थः । अहो इति कारणं विना कार्यो. दयादाश्चर्यम् । अत एव विभावनालंकारः । पुण्यैर्यशो लभ्यत इति भावः ॥
छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः । प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति संप्रतीयसे ॥२५॥ छलयन्निति ॥ इन्द्रजालं वेत्तीत्यैन्द्रजालिकः । अत एव कपटपटुर्वञ्चनाकुशलस्त्वमनृतेनासत्येन प्रजाश्छलयन्वञ्चयन् इष्टं सत्यं यस्य स इष्टसत्यः प्रियसत्य इति संप्रतीयसे सम्यख्यायसे। 'प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः' इत्यमरः। नग्नजितो नग्नजिन्नाम्नो राज्ञः सुतया सत्यभामया सत्यापराख्यया प्रीतिमा. नन्दमनुभवसि । सत्यायोगादिष्टसत्यो न तु सत्ययोगादिति भावः। अत्र हरेः सत्यासंबन्धेऽपि तदसंबन्धोक्तेः संबन्धेऽसंबन्धरूपातिशयोक्तिः ॥
धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् । चक्रधर इति रथाङ्गमदः सततं विभर्षि भुवनेषु रूढये ॥२६॥ धृतवानिति ॥ आहवे युद्धे अरिचक्रादरिसैन्यायेन चकितं संभ्रान्तम् । 'चकितं भयसंभ्रमः' इति सजनः । निजमात्मीयं चक्रं सैन्यं न धृतवान्नावल. म्बितवान् । न रक्षितवानित्यर्थः । किंतु चक्रधर इति भुवनेषु रूढये प्रसिद्धये । अदः इदं रथाङ्गं चक्रापराख्यं सततं बिभर्षि दधासि । वृथाभारमिति भावः । 'चक्रं सैन्यरथाङ्गयोः' इति हेमसजनौ । अयोविकारधरः चक्रधरो भवान्नारिभी. तिचक्रधारकत्वादित्यर्थः । अत्र हरौ भगवति चक्रधारणसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥ जगति श्रिया विरहितोऽपि यदुदधिसुतामुपायथाः। ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः २७
जगतीति ॥ श्रिया राजलक्ष्म्या विरहितोऽपि । यदूनां ययातिशापादाज्यानधिकारित्वादिति भावः । ज्ञातिजनेन बन्धुजनेन जनितं प्रवर्तितं नामपदं श्रीरिति पारिभाषिकसंज्ञाशब्दो यस्यास्तामुदधिसुतामब्धिकन्यां यद्यस्मादुपा. यथाः । उदृढवानित्यर्थः । 'विवाहोपयमौ समौ' इत्यमरः । 'उपाद्यमः स्वकरणे' इत्यात्मनेपदम् । 'तनादिभ्यस्तथासोः' इति सिचो लुक् 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपः । अतो जगति श्रियः पतिरिति प्रथां ख्यातिमगाः प्राप्तवानसि । 'इणो गा लुङि' इति गादेशः । न राजान्तरवद्गाज्यलक्ष्मीयोगात्तव श्रीपतित्वम् , किंतु श्रीसंज्ञिकायाः कस्याश्चिद्वराक्याः परिग्रहादिति भावः । अत्रोग्रसेनस्याभिषेकसंस्कारेऽपि त्रैलोक्यप्रतिष्टापकस्य हरेरेव सकलराज्यश्रीधुरंधरत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥