________________
३६०
शिशुपालवधे अत्र स्वयंभूप्रार्थनाया विशेषणगत्या वसुदेवपुत्रताप्राप्तिहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे । यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः॥ ८३॥ तातेति ॥ सुरौघवल्लभः सुरगणप्रियः । जगत्पतियों हरिः सुरैर्देवैर्बल्लवैर्गोपैश्च हे तात जनक, नेति छेदे, उदधिविलोडनं समुद्रमथनं प्रति, नो इति छेदे, दधिविलोडनं दधिमन्थनं च प्रति त्वद्विना । त्वां विहायेत्यर्थः। 'पृथग्विना-' इत्यादिना विकल्पात्पञ्चमी । अथ वयं न नो वोल्सहामहे न क्षमामहे इति जगदे गदितम् । अत्र हरिवर्णनाङ्गत्वे सुराणां बल्लवानां च प्रकृतानामेव नोदधिशब्दमूलाभेदाध्यवसायलब्धदध्युदधिविलोडनक्षमत्वकर्मसाम्यागम्यौपम्यत्वात्तुल्ययोगिताभेदः । तेन च हरेर्दधिमन्थनकलावदुदधिमन्थनमपीति वस्तु व्यज्यत इत्यलंकारेण वस्तुध्वनिः ॥
नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् । योऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥८४॥
नात्तगन्धमिति ॥ किंचेति चार्थः । यो हरिः शत्रुभिरवधूयाभिभूय नात्तगन्धमनाघ्रातसौरभमनभिभूतं च। 'आत्तगन्धोऽभिभूतः स्यान्' इत्यमरः । नजर्थस्य नशब्दस्य सुप्सुपेति समासः। छाययानातपेन, पालनेन च 'छाया स्यादातपाभावे प्रतिबिम्बार्कयोषितोः । पालनोत्कर्षयोः कान्तिसच्छोभापतिषु स्त्रियाम्'
इति विश्वः। शमितामरश्रमं निवारितसुरखेदं पारिजात वृत्रद्विषः शक्रस्याभि'मानमहंकारमिव दिवः स्वर्गादुदमूलयदुन्मूलितवानिति पारिजातहरणोक्तिः । श्लेषसविशेषणेयमुपमेति केचित् । श्लेषवच्चान्ये ॥
यं समेत्य च ललाटलेखया विभ्रतः सपदि शंभुविभ्रमम् । चण्डमारुतमिव प्रदीपवचेदिपस्य निरवाद्विलोचनम् ॥ ८५ ॥ यमिति ॥ किंचेति चार्थः । ललाटमेव लेखा तया ललाटलेखया ललाटदे. शेन शंभोर्विभ्रमं सौन्दर्य विभ्रतः । ललाटलोचनमित्यर्थः । चेदिपस्य शिशुपालस्य लोचनं तृतीयनेत्रं कर्तृ यं हरिमेव चण्डमारुतं चण्डमारुतमिव समेत्य प्रदीपवत्प्रदीपेन तुल्यम् । 'तेन तुल्यम्-' इति वतिप्रत्ययः । निरवान्निति स्म। नष्टमित्यर्थः । निपूर्वाद्वाधातोर्लङ् । 'निरवाप' इति काचित्कः पाठः स न सम्यक् । वातेः प्रक्रियाविरोधादामोतेरसंगतार्थत्वादिति अनेकार्थेयमुपमा ॥
यः कोलतां बल्लवतां च विभ्रदंष्ट्रामुदस्याशु भुजां च गुर्वीम् । मनस तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥८६॥
य इति ॥ यो हरिः कोलतां वराहत्वम् । 'वराहः सूकरो घृष्टिः कोलः पोत्री किरिः किटिः' इत्यमरः । बल्लवतां गोपालत्वं च बिभ्रत् । आशु गुर्वी दंष्ट्रां भुजां