________________
चतुर्दशः सर्गः।
३५९ योऽभूदित्यर्थः । अत्रानपायित्वस्मृत्यप्रतिघातयोर्विशेषणगत्या श्रुतिस्मृतिहेतुवोत्या काव्यलिङ्गम् ॥ परशुरामावतारमाहरेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहतिः । लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥ ८॥ रेणुकेति ॥ अयं हरिः रेणुकातनयतां परशुरामत्वमुपागतः सन् । अर्जुनः कार्तवीर्यार्जुनः । 'अर्जुनः ककुभे पार्थे कार्तवीर्यमयूरयोः' इत्यनेकार्थेऽपि रेणुकेयविरोधित्वान्निश्चयः । तदुक्तं हरिणा-'संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति । स एव वनं तत् । शातिता छिन्ना प्रचुरा प्रभूता पत्रसंहतिर्वाहनसमूहः पर्णसंघातश्च यस्य तत् । 'पत्रं स्याद्वाहने पर्णे' इति विश्वः । लूनाश्छिन्ना भूरयः प्रचुरा भुजा एव शाखा यस्य तत् । उज्झिता छाया कान्तिरनातपश्च यस्य तत्तथा व्यधाद्विहितवान् । दधातेलुङि 'गातिस्था-' इत्यादिना सिचो लुक् । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । अत्र समस्तवस्तुविषयं सावयवं रूपकं व्यक्तं तच्च छायेति पत्रेति च श्लेषप्रतिभोत्थापिताभेदातिशयोक्त्यानुप्राणितमिति संकरः ॥ रामावतारमाहएष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि । राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥ ८१॥ एष इति ॥ किंचेति चार्थः । रक्षितप्रजः एष हरिदशरथस्यापत्यं पुमान्दाशरथी रामः । 'अत इञ्' तस्य भावः दाशरथिभूयं रामत्वम् । 'भुवो भावे' इति क्यप् । एत्य प्राप्य ध्वंसितो हत उद्धृतो दृप्तो दशाननो रावणो यस्यां तामपि राक्षसी रक्षःसंबन्धिनी पुरी लङ्कां तेजसा स्ववीर्येणाधिकविभीषणामन्यन्तभीषणामकृतेति विरोधः। भयहेतोरुद्धतस्य रावणस्य ध्वंसनादधिको महाविभीषणो रावणानुजो यस्यां तामित्यविरोधः । अत एव विरोधाभासोऽलंकारः ।।
अथ पञ्चभिः प्रस्तुतं कृष्णावतारमाहनिष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा । संप्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥ ८२॥ निष्प्रहन्तुमिति ॥ अथ रामावतारानन्तरं अयं हरिः अमरेशविद्विषां निष्प्रहन्तुम् । चैद्यादी निन्द्रशत्रून्हन्तुमित्यर्थः । 'जासिनिग्रहण-' इत्यादिना कर्मणि षष्ठी । स्वयंभुवा ब्रह्मणा स्वयमात्मनैवार्थितः प्रार्थितः सन् संप्रतीदानीं वसुदेवरूपिणो वसुदेवमूर्तिधरस्य कश्यपस्य पुत्रतां श्रयति व्रजति । कृष्णरूपेणेति भावः ।