________________
३५८
शिशुपालवधे गच्छतापि गगनाप्रमुच्चकैर्यस्य भूधरगरीयसायिणा । क्रान्तकंधर इवाबलो बलिः स्वर्गभर्तुरंगमत्सुबन्धताम् ॥७६॥
गच्छतेति ॥ गगनाग्रं गगनोपरिभागं गच्छतापीति विरोधः। भूधरगरीयसेत्युपमा । यस्य वामनस्योच्चकैरुन्नतेनाङ्गिणा क्रान्तकंधरोऽवष्टब्धकण्ठ इवाबलो दुर्बलो बलिवैरोचनिः स्वर्गभर्तुरिन्द्रस्य सुखेन बध्यत इति सुबन्धः । ईषहुःसुषु-' इत्यादिना खलप्रत्ययः। तत्तामगमत् गुरुद्रव्यावष्टब्धकण्ठो हि सुखेन बध्यत इति भावः । 'न लोका-' इत्यादिना कृद्योगलक्षणाया एव षष्ट्या निषेधात्स्वर्गभर्तुरिति शेषे षष्ठी। अत्र क्रान्तकंधर इवेत्युत्प्रेक्षाया भूधरगरीयसेत्यु. पमासापेक्षत्वात्संकरः। विरोधेन त्वनपेक्षिता संसृष्टिः ॥
क्रामतोऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् । व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौषमुत्थितम् ॥७७॥ कामत इति ॥ कामतः पादं विक्षिपतोऽस्य संबन्धिनं दूरमायतमलिनीलं भृङ्गश्याममूरुं सक्थि दिवौकसो देवा व्योनि-दिव्यसरितो मन्दाकिन्या अम्बुपद्धत्या जलप्रवाहेण स्पर्धया उत्थितमूर्ध्वतः प्रवृत्तं यमुनौघं यमुनाप्रवाहमिव ददृशुरित्युत्प्रेक्षेयमुपमासंकीर्णा ॥
अवतारान्तरमाहयस किंचिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः। . कान्तवक्रसदृशाकृति कृती राहुरिन्दुमधुनापि बाधते ॥ ७८ ।। यस्येति ॥ कायनिग्रहेणामृतविभागकाले देहच्छेदेन गृहीतविग्रहो बद्धवैरः कृती कुशलो राहुर्यस्य हरेः किंचिदपकर्तुमक्षमः सन् कान्तं रम्यं यद्वकं हरिमुखं तेन सदृशी आकृतिर्यस्य तम् । तत्सुहृदमित्यर्थः। इन्दुमधुनापि बाधते पीडयति । उपरागमिषेणेति भावः । अत्र साक्षात्प्रतिपक्षहरिनिग्रहाशक्त्या राहोस्तदीयेन्दुनिग्रहोक्त्या प्रत्यनीकालंकारः । तथा च सूत्रम्- ‘प्रतिपक्षप्रतीकाराशक्तौ तदीयतिरस्कारः प्रत्यनीकम्' इति ॥ दत्तात्रेयावतारमाहसंप्रदायविगमादुपेयुषीरेप नाशमविनाशिविग्रहः। सर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥ ७९ ॥ संप्रदायेति ॥ अविनाशिविग्रहोऽनपायस्वरूपः अत एव अप्रतिहता स्मृतिः स्मरणशक्तिर्यस्य स एष हरिः संप्रदाय उपदेशपरम्परा तस्य विगमादपायान्नाशं कालदोषाध्ययनविच्छेदमुपेयुषीः प्राप्ताः । 'उगितश्च' इति ङीप्। श्रुतीर्वेदान् । 'श्रुतिः स्त्री वेद आम्नायः' इत्यमरः । स्मर्तुम् । श्रुतिसंप्रदाय प्रवर्तयितुमित्यर्थः । दत्त इति विख्यात इति शेषः । अत्रिगोत्रे जातोऽत्रिगोत्रजोऽभवत् । दत्तात्रे