________________
चतुर्दशः सर्गः ।
३५७
लब्धशममप्राप्तशान्ति । दुर्निवारा दुर्जया रणकण्डूर्यस्य तत् । रणव्यसनीत्यर्थः । 'गोखियोरुपसर्जनस्य' इति ह्रस्वः । सुरद्विषो हिरण्यकशिपोर्वक्षः कोमलैर्नखैः निरदारयदभिनत् । वज्राद्यभेद्यस्य कोमलनखविदार्यत्वं भगवत्प्रभावादिति विरोधाभासोऽलंकारः ॥
वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिन्नतः । यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥७३॥ ॥ युग्मकम् ॥
वारिधेरिति ॥ कराग्राणि वीचय इवेत्युपमितसमासः । वारिधेरिवेति लिङ्गात् । ताभिः कराग्रवीचिभिः । दिगन्तवितताभिरिति भावः । अत एव दिङ्मतङ्गजानां मुखान्यभिघ्नतो रोषातिरेकात्प्रहरतो यस्य सिंहमूर्तेर्हरेर्वारिधेरिव चारुनखाः शुक्तय इव । पूर्ववदुपमितसमासः । स्फुरन्मौक्तिकप्रकरोदिग्गज कुम्भसंभूतमुक्ताव्रातो गर्भेऽन्तर्गतो यासां तासां भावस्तत्ता तां दधुः । एष निर. दारयदिति पूर्वेणान्वयः । एतेन नरहरि क्रोधस्य सामर्थ्यं महासुरेऽपि न पर्याप्त - मिति व्यज्यत इति वस्तुना वस्तुध्वनिः । उपमालंकारः ॥
अथ चतुर्भिर्वामनावतारमाहदीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः । आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययैौ ॥ ७४ ॥
दीप्तीत्यादि || आत्मना भवतीति आत्मभूः स्वयंभूरपि । अवरजाश्चरमजा अखिलाः प्रजा जना यस्य सोऽपि । सर्वज्येष्ठोऽपीत्यर्थः । अयं हरिः दीप्तिनिर्जितविरोचनाद् ज्योतिर्विजितमार्तण्डात् । विरोचनः प्रह्लादपुत्रः । ' विरोचनोऽर्के दहने चन्द्रे प्रह्लादनन्दने' इत्युभयत्रापि विश्वः । तस्य सुताइलेग भुवमभीप्सतः प्राप्तुमिच्छतोऽभ्याहर्तुमिच्छतः । सन्नन्तादाप्नोतेर्लटः शत्रादेशः । स्वर्पतेरवरजत्वमिन्द्रानुजत्वं ययौ । बलिध्वंसनार्थमिति शेषः । लोकानुग्रहार्थिनः किं न कुर्वन्तीति भावः । अत्राजत्वावरजसामानाधिकरण्यविरोधो भगवत्प्रभावादाभासीकृत इति विरोधाभासोऽलंकारः ॥
किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः । तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥७५॥ किमिति ॥ एष वामनः खर्वः । 'खर्वो ह्रस्वश्च वामनः ' इत्यमरः । किं क्रमिष्यति इत्थमनेन प्रकारेण दानवा यावन्नाहसंस्तावत्ततः प्रागेव लङ्घितेऽतिक्रान्ते अर्कशशिमण्डले येन सोऽस्य हरेः क्रमः पादविक्षेपो नभस्तले न ममौ न परिमाणं गतवान् । यथा न माति तथा ववृधे इत्यर्थः । अत्राधारान्नभस्तलादाधेयस्य क्रमस्याधिक्यकथनादधिकालंकारभेदः । आश्रयाश्रयिणोराधिक्यमधिकमिति लक्षणात् ॥