________________
३६६
शिशुपालवधे श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् । श्रीमुखेन्दुसविधेऽपि शोभते यस नाभिसरसीसरोरुहम् ॥६९॥ श्रौतेति ॥ श्रौतमार्गस्य सुखं सुखकरं यद्गानं तस्य कोविदोऽभिज्ञः । कोविदो व्याख्यातः। स चासौ ब्रह्मा स एव षट्चरणः स गर्भे यस्य तत् उज्ज्वलं निर्मल यस्य हरेर्नाभिरेव सरसी। सरः कासारः । 'कासारः सरसी सरः' इत्यमरः । तस्यां रोहतीति सरोरुहं पद्मं श्रियो मुखमेवेन्दुस्तस्य संनिधौ समीपेऽपि शोभत इति विरोधः । स च मुखस्येन्दुत्वरूपणायत्त इत्यनयोरङ्गाङ्गिभावेन संकरः ॥
सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् । जन्म विभ्रतमजं नवं बुधा यं पुराणपुरुष प्रचक्षते ॥ ७० ॥ सत्येति ॥ यं हरिं सत्यवृत्तमकपटचरितमपि । मायिनं मायाविनं कपटवन्तमिति विरोधः । माया नाम शक्तिः तद्वन्तमित्यविरोधः । ब्रीह्यादित्वादिनिप्रत्ययः । जगवृद्धं सर्वलोकपितामहत्वात्स्थविरमपि । 'प्रवयाः स्थविरो वृद्धः' इत्यमरः । उचितनिद्रं परिचितयोगनिद्रमभकं डिम्भम् । 'वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि' इत्यागमवचनादिति भावः । 'पोतः पाकोऽर्भको डिम्भः' इत्यमरः । न जायत इत्यजो जन्मरहितः । 'अन्येभ्योऽपि दृश्यते' इति जनेर्डप्रत्ययः । तमपि जन्म विभ्रतम् । कामवशात्कृष्णादिजन्मभाजमित्यर्थः । नवं रमणीयत्वादभिनवं तथापि पुराणं प्राचीनमनादिं च पुरुषं प्रचक्षते । बुधा इति वाक्यं सर्वत्र संबध्यते । सर्वेऽपि विरोधा हरेरचिन्त्यमहिमत्वेनाभास्या इति विरोधाभासचतुष्टयसंसृष्टिः ॥
अथ षोडशभिरवतारान्वर्णयिष्यन्वराहावतारं तावदेकेनाहस्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् । उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुंधराम् ॥ ७१ ॥ स्कन्धेति ॥ स्थूलनासिकवपुर्वराहमूर्तिरयं हरिः स्कन्धस्य कंधरायाः धून नेन कम्पनेन विसारिभिरुत्सर्पिभिः केसरैः सटाभिः क्षिप्तोऽवकीर्णः सागरस्य महाप्लवो महापूरः यस्यास्ताम् । जलापसारेण प्रकाशितामित्यर्थः। वसुंधरां भुवं मुहूर्त क्षणमात्रम् । 'मुहूर्तमल्पकालेऽपि' इति शब्दार्णवे । उद्धृतामनावृतत्वात्सागरादुत्क्षिप्तामिव ऐक्षत प्रेक्षितवानित्युत्प्रेक्षा । ईक्षतेर्लङि 'आडजादीनाम्' 'आटश्च' इति वृद्धिः॥ द्वाभ्यां नृसिंहावतारमाहदिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि । दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥ ७२ ॥ दिव्येति ॥ दिव्यकेसरिवपुर्दिव्यसिंहमूर्तिः । हरेरायुधैर्वज्रादिभिरपि नैव