________________
चतुर्दशः सर्गः।
३५५
मणि प्रत्ययान्कर्मार्थविहितान्यागादीन् न दधति । न तदन्ता भवन्तीत्यर्थः । सर्वकर्तृत्वान्नियन्तृत्वाच्च सृजति स्रष्टा, संहरति हर्ता, शास्तीति शासितेत्यादिभिः कर्तृत्वेन निर्दिश्यते न कदाचित्सृज्यते, संहियते, शिष्यत इत्यादिभिः कर्मत्वेन । अनादिनिधनत्वादनियम्यत्वाच्चेति भावः । किंच अत्र भगवति स्तौतिः ‘ष्टुञ् स्तुतौ' इति धातुः विपरीत कारकं यस्य सः विपरीतकारकः स्तूयते स्तुत्य इत्यादिकर्मप्रत्ययान्त एव न तु कदाचित्स्तौति स्तोता इत्यादिकर्तृप्रत्ययान्तः । सकललोकस्तुत्यस्य तस्य स्तुत्यन्तराभावादित्यर्थः । अत्र शब्दानां कर्मकर्तृप्रत्ययविधिनिषेधद्वारा विभक्त्यन्तरेण सर्वकर्तृत्वसर्वोपास्यत्वादिसूक्ष्मार्थबोधपरत्वात्सौम्याख्यो गुणः । 'अन्तःसंकल्परूपत्वं शब्दानां सौक्ष्यमुच्यते' इति लक्षणात् । अत्र भगवतः सृष्ट्यादिकर्तृकर्मत्वोभयप्राप्तावेकत्रैकनियमात्परिसंख्या। तत्र जातु कर्मणीति शब्दादेव कर्मत्वनिषेधादितरनिवृत्तिः, शब्दात्स्तुती कर्तृत्वनिवृत्तिरार्थीति भेदद्वयसंसर्गः । अनया च भगवतः पुरुषान्तराधिक्यप्रतीतेर्यतिरेकश्च प्रतीयत इत्यलंकारेणालंकारध्वनिः ॥
पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ । तच्च कारणमभूद्धिरण्मयं ब्रह्मणोऽसृजदसाविदं जगत् ॥६७ ॥ पूर्वमिति ॥ एप हरिः पूर्व प्रथममपः स्पृष्टवान् । किलेत्यैति । तास्वप्सु अनिवार्य वीर्य रेतः । 'शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' इत्यमरः । आदधावाहितवान् , तवीर्यं तु हिरण्यस्य स्वर्णस्य विकारः हिरण्मयम् । 'दाण्डिनायन-' इत्यादिना निपातः। ब्रह्मणश्चतुर्मुखस्य कारणमभूत् । ब्राह्ममण्डं जातमित्यर्थः । असौ तदुत्पन्नो ब्रह्मा ब्रह्माण्डमिदं जगदसृजत् । सर्वस्यापि प्रपञ्चस्यायमेव मूलकारणमिति भावः । अत्र मनुः-'अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवढेमं सहस्रांशुसमप्रभम् ॥ तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥' इति । अत्र वीर्यमनिवार्यमिति वृत्त्यनुप्रासः ॥ अथैनं त्रिभिर्विशिनष्टिमत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः । गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥६८॥ मत्कुणाविवेत्यादिना ॥ पुरा पूर्व परिप्लवौ चञ्चलौ । मुहुरितस्ततश्वलन्तावित्यर्थः । 'चञ्चलं चपलं तूर्णं पारिप्लवपरिप्लवे' इत्यमरः । मधुकैटभावसुरविशेषौ मत्कुणौ सुप्तासृक्पायिनौ मलोद्भवौ कीटविशेषौ ताविवेत्युपमा । सिन्धुनाथः सरिस्पतिः स एव शयनं तत्र निषेदुषो निषण्णस्य । समुद्रशायिन इत्यर्थः । 'भाषायां सदवसश्रुवः' इति लिटः कसुरादेशः। विभोः प्रभोः यस्य हरेः क्षणं निद्रायाः संबन्धिनः, आगतं वा नद्रं यत्सुखं तस्य विघ्नतां विधातुं कर्तुं गच्छतः स गतौ । तादृशावपि महासुरौ मत्कुणाविव क्षणमात्रेण प्रणष्टाविति भगवतः प्रभावातिशयोक्तिः । एषां त्रयाणां पूर्वेणान्वयः ॥