________________
३५४
शिशुपालवधे
भक्तिमन्त इति ॥ भक्तवत्सले भक्तप्रिये इहास्मिन्हरौ भक्तिमन्तोऽनुरागवन्तो जनाः । पूज्येष्वनुरागो भक्तिः । संततं सततं तत्स्मरणेन निरन्तरध्यानेन रणकल्मषाः क्षीणपापाः सन्तः । 'री क्षये' 'ल्वादिभ्यः' इति निष्ठानत्वम् । अस्यानुभूयमानस्य कृष्णस्य संसृतिः संसारस्तस्य क्लेशो दुःखं तदेव नाटकमिति रूपकम् । तस्य विडम्बनाभिनयस्तस्य निर्वहणं समाप्तिं यान्ति । मुच्यन्त इत्यर्थः । 'तमेवंविद्वानमृत इह भवति' इति श्रुतेरिति भावः ।
ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा । दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥ ६४ ॥
ग्राम्येति ॥ ग्रामे भवा ग्राम्याः प्राकृताः । मूढा इति यावत् । 'ग्रामाद्यखजौ' इति यत्प्रत्ययः । तेषां भावस्तमपहातुं मोक्तुमिच्छवो मुमुक्षवो मोक्षार्थिनः अपुनर्निवृत्तये पुनरावृत्तये पुनरावृत्त्यभावाय । मोक्षायेत्यर्थः । दुःखेन गम्यत इति दुर्गं दुष्प्राप्यं एकमेवाद्वितीयं वशिनं स्वतन्त्रं यं हरिं योगमार्गपतितेन ध्यानमार्गनिविष्टेन । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । चेतसा विशन्ति ध्यायन्तीत्यर्थः । यं विशन्ति इह भक्तिमन्त इति पूर्वेणान्वयः ॥
अथ भक्त्युकान्नमस्करोति
आदितामजननाय देहिनामन्ततां च दधतेऽनपायिने । विrते भुवमधः सदा च ब्रह्मणोऽप्युपरि तिष्ठते नमः ॥ ६५ ॥ आदितामिति ॥ देहिनां प्राणिनामादितां कारणताम् । अन्तोऽन्तकरो नाशहेतुः । ' तत्करोति -' इति ण्यन्तादन्तयतेः पचाद्यच् । तस्य भावस्तत्तामन्ततां च दधते । 'यतो वा इमानि भूतानि जायन्ते' इत्यादिश्रुतेः । स्वयमजननाय जन्मरहिताय । अपायोsस्यास्तीत्यपायी स न भवतीत्यनपायी तस्मा अनपायिने नाशरहिताय च । कालतोऽपरिच्छिन्नायेत्यर्थः । देशतोऽपि तथेत्याह - सदाऽधः पाताले भुवं बिभ्रते कूर्मरूपेण दधते । अथ च तथैव ब्रह्मणो लोकस्याप्युपरि तिष्ठते । सर्वव्यापिन इत्यर्थः । तस्मै । हरय इति शेषः । नमः नमस्कारः । ' नमः स्वस्ति - ' इत्यादिना चतुर्थी । अत्र हरेरनादिनिधनत्वेन तद्वतः पुरुषान्तरादाधिक्यवर्णनाद्व्यतिरेकालंकारः ॥
1
केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि । धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः || ६६ ॥
केवलमिति ॥ सृजतिश्च संहा च शास्तिश्व सृजतिसंहृशास्तयः । 'सृज विसर्गे' 'हृञ् हरणे' संपूर्वोऽयं ‘शासु अनुशिष्टौ ' इत्येते त्रय इत्यर्थः । ' इति पौधातु'निर्देशे' इति वचनादेवं निर्देशः । धातवो 'भूवादयो धातवः' इत्युक्तलक्षणाः शब्दविशेषाः । इहास्मिन्भगवति विषये केवलमन्ययोगव्यवच्छिन्नं यथा तथा कर्तृवाचिनः कर्तृकारकवाचकान्दधति । तदन्ता एव भवन्तीत्यर्थः । जातु कदाचित्क -