________________
चतुर्दशः सर्गः।
३५३
नाधातोर्मनादेशः । स्तुत्यं स्तोतुमर्हम् । तथापि अतीतो वाक्पथो येन तम् । अवाङ्मनसगोचरमित्यर्थः । 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह' इति श्रुतेः। आमनन्ति आदरादास्थयोपास्यं सेव्यम् । तथापि अतीवात्यन्तम् । अतीवेति निपातसमुदायोऽत्यन्तार्थेऽव्ययम् । दूरवर्तिनमामनन्ति यमेनमचिन्त्यरूपमामनन्ति तमेनं मर्त्यमानं मावधारयेरिति पूर्वेणान्वयः । अवाङ्मनसगोचरत्वदूरवर्तित्वानां ध्येयत्वस्तुत्यत्वोपास्यत्वैः सह विरोधस्य हरेरचिन्त्यमहिमत्वेन समाधानाद्विरोधाभासोऽलंकारः ॥
ननु हरिहरहिरण्यगर्भास्त्रयो देवाः सर्वोत्तरमहिमानः सन्ति, एनं न जानीम इत्यत आह
पद्मभूरिति सृजञ्जगद्रजः सचमच्युत इति स्थिति नयन् । संहरन्हर इति श्रितस्तमधमेप भजति त्रिभिर्गुणैः ॥ ६१॥ पद्मभूरिति ॥ एष हरिः रजः रजोगुणं श्रितो जगत्सृजन्पद्मभूर्ब्रह्मेति, सत्त्वं सत्त्वगुणं श्रितः जगत्स्थितिं नयन्स्थापयन्नच्युतो विष्णुरिति, तमस्तमोगुणं श्रितो जगत्संहरन्हर इति, त्रिभिर्गुणैः सत्त्वरजस्तमोभित्रैधं त्रैविध्यं भजति । 'द्वियोश्च धमुन्' इति विधार्थे धमुञ् प्रत्ययः। अस्यैव गुणभिन्नास्तास्तिस्रोऽपि मूर्तय इत्य. यमेव सर्वोपास्य इति भावः । अत्र सत्यादिगुणयोगस्य सृष्ट्यादिगुणयोगस्य च विशेषणगत्या त्रैविध्यहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ तर्हि कीदृशमत्य स्वरूपं कुतो वा मानुषविग्रह इत्यपेक्षायामुभयं निरूपयन्नाहसर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः । क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरं विदुः ॥ ६२ ॥
सर्वेति ॥ अमुं कृष्णं सर्ववेदिनम् । सर्वज्ञमित्यर्थः । अत एवानादिमादिरहितम् । अनादि निधनमित्यर्थः । तथापि देहिनां प्राणिनामनुजिघृक्षयानुगृहीतुमिच्छया। भूभारावतरणार्थमित्यर्थः । गृहेः सन्नन्तास्त्रियाम् 'अप्रत्ययात्' इत्यप्रत्यये या । वपुरास्थितं मानुपविग्रहमास्थितम् । न कारब्धशरीरभाजमित्यर्थः । अत एव केशकर्मफलभोगवर्जितम् । पञ्च अविद्यास्मितारागद्वेषाभिनिवेशाख्याः क्लेशाः। कर्माणि पुण्यपापानि तेषां फले सुखदुःखे तयो गोऽनुभवस्तेन क्लेशैश्च वर्जितम् । तैरसंस्पृष्टमित्यर्थः । ईश्वरमीश्वरशब्दितं पुंविशेष क्षेत्रज्ञविलक्षणं पुरुषविशेपं परमपुरुषं वा विदुर्विदन्ति । सन्त इति शेषः । 'विदो लिटो वा' इति झेरुसादेशः । अनाकर्मारब्धत्वान्नित्यज्ञानत्वादिविरोधसमर्थनाद्विरोधाभासोऽलंकारः । तेषामेव गुणानां विशेषणगत्या 'विशेषहेतुत्वात्काव्यलिङ्गमिति संकरः ॥ एवं हरेः स्वरूपं निरूप्य तदुपासनात्फलं युग्मेनाहभक्तिमन्त इह भक्तवत्सले संततसरणरीणकल्मषाः। यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः॥६३॥