________________
३९८
शिशुपालवधे भावः । रसस्नेहयो रागप्रेमापरनाम्नोरवस्थाभेदाढ़ेदः। 'रागस्तत्संबन्धी प्रेम तद्वियोगासहिष्णुता' इति रससागरे । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ सह कजलेन विरराज नयनकमलाम्बुसंततिः। गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ॥९०॥
सहेति ॥ सुतनोः शुभाझ्याः गण्डफलकमभितः । गण्डस्थलयोरित्यर्थः । 'अभितःपरितः-' इत्यादिना द्वितीया । नयनकमलाम्बुसंततिरश्रुधारा कजले. नाञ्जनेन सह शोक एव शोकमयस्तस्य कृष्णवर्मनः शोकाग्नेः पदवीव निःसरणमार्ग इव विरराज शुशुभे । येन वर्मनाग्निर्गच्छति तत्कृष्णं भवतीति कृष्णवर्मा । अत्राप्यश्रुपात एव दुर्निमित्तमिति भावः ॥ क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रवः। स्रस्तभुजयुगगलद्वलयस्खनितं प्रति क्षुतमिवोपशुश्रुवे ॥ ९१॥
क्षणेति ॥ कतिपयं च तत्पदं च तत् । जातावेकवचनम्। कतिचित्पदानीत्यर्थः । पदशब्दस्य तदवच्छिन्नदेशवाचित्वादत्यन्तसंयोगे द्वितीया । चलितेन प्रस्थितेन । केनचिदिति शेषः । क्षणमात्रमरोधि क्षणमात्रप्रतिबन्धकम् । प्राणदानकजीविनामवसरे सत्यधिकं स्थातुमनौचित्यादिति भावः। नतध्रुवः स्रस्तानामगसादेन झटिति प्रकोष्ठाग्रे पतितानां भुजयुगगलद्वलयानां हस्तद्वयचलत्कङ्कणानां स्वनितं रणत्कारं प्रति प्रतिमुखं क्षुतमिवोपशुश्रुवे उपश्रुतम् । 'स्त्री क्षुत्क्षुतं क्षवः पुंसि' इत्यमरः । रणत्कारे क्षुतभ्रान्त्या निवृत्तम् । क्षणमात्रं स्थितमित्यर्थः । अक्षुते क्षुतभ्रान्त्या भ्रान्तिमदलंकारः। दैन्यविषादाख्याः संचारिणः ॥ अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका । भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥९२॥
अभीति ॥ वल्लभतमस्य प्रियतमस्याभिवर्माभिमार्ग विगलदङ्गसादात्स्रंसमानममलमायतं चांशुकं वस्त्रं यस्याः, अन्यत्र विगलन्तो विशीर्यमाणा अमला उज्वलाः आयता दीर्धीभूता अंशवो रश्मयो यस्याः सा । शैषिकः कप्रत्ययः । भूमिर्नभ इव तस्मिन्भूमिनभसि रभसेन वेगेन यती यान्ती। इणः शतरि 'उगितश्च' इति ङीप् । काचनाङ्गना महोल्कया समं सदृशं विरराज । अत्र प्रस्थातुरग्रे स्वकान्तया महोल्कासादृश्यभवनमेव दुर्निमित्तमिति भावः । उपमालंकारः ॥ समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः। दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमना विचक्लमे ॥९३॥
समरेति ॥ नृपगणे समरोन्मुखेऽपि तस्य नृपगणस्यानुमरणे सहमरणे उद्यतो. द्युक्ता अत एवैका मुख्या धीर्यस्य सः । दीनेनाप्यशोच्येन परिजनेन कृताश्रुजलो मुक्तबाष्पः । दासीमुक्ताश्रुबिन्दुरित्यर्थः । तथापि स्वयं स्थिरमना अचलितचित्तो