________________
पञ्चदशः सर्गः।
३९९
भटीजनो भटस्त्रीलोकः । जातावेकवचनम् । 'पुंयोगादाख्यायाम्' इति डीप् । न विचक्लमे न तत्रास । सहमृत्युप्रियाणां कुतः संत्रास इति भावः । अत्र मरणोद्यो. गस्य विशेषणगत्या अक्लैब्यहेतुत्वात्काव्यलिङ्गभेदः ॥ विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः । यान्तमनिमिषमवितृप्तमनाः पतिमीक्षते स्म भृशमा दृशः पथः ९४
विदुषीवेति ॥ युवतिः काचिदङ्गना अमुष्य पत्युदर्शनं पुनः पश्चादतिदुर्लभम् । तस्यापुनरावृत्तेरिति भावः । विदुषी जानतीवेत्युत्प्रेक्षा । 'विदेः शतुर्वसुः' इति वस्वादेशः 'उगितश्च' इति डीप् । अवितृप्तमना अवितृप्तचित्ता सती यान्तं योढुं गच्छन्तं पतिं भर्तारं आ दृशः पथः आ दृष्टिपथात् । दृष्टिपथातिक्रमपर्यन्तमित्यर्थः । 'आमर्यादाभिविध्योः' इति विकल्पादाङो न समासः । भृशमनिमिषं निमेषरहितं यथा तथा ईक्षते स्म ॥ संप्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता । सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ९५
संप्रतीति ॥ संप्रतीदानीमेव कुशली अक्षतः सन् युधो युद्धात्पुनः उपेयाः प्रत्यावर्तस्वेति सस्नेहं भर्तुरीरिता भā प्रयुक्ता आशीराशीर्वादः सद्यः प्रसह्य बलाद्गलदम्भसा स्रवदश्रुणा तस्या भटस्त्रियास्तस्य वध्वा एव । अस्त्रीति प्रति
धान्नदीत्वादाडागमः । नेत्रयोर्द्वितीयेन प्रत्याचचक्षे प्रत्याख्याता । निराकृते. त्यर्थः । अमङ्गलेनाश्रुपातेन निष्फलीकृतेत्यवश्यं भवितव्यं भवत्येवेति भावः । 'वा लिटि' इति विकल्पान्न चक्षिङः ख्याजादेशः । अत्राश्रुपातस्य नेत्रविशेषणद्वारा आशीःप्रत्याख्याने हेतुत्वात्काव्यलिङ्गभेदः ॥ काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्रेन्दुलक्ष्मी
रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्धान्तसत्त्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः॥९६॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यङ्के
पञ्चदशः सर्गः ॥ १५॥ काचिदिति ॥ काचित्स्त्री रजोभिरातवैरङ्गसंस्कारत्यागात्पांशुभिर्वा कीर्णा । 'स्याद्रजः पुष्पमार्तवम्' इति । 'पांशुर्ना न द्वयो रजः' इति चामरः । दिवस्त्वौत्पातिकपांसुवर्षणाद्रजःकीर्णता । वक्रमिन्दुरिव अन्यत्र वक्रमिवेन्दुर्भिन्नास्तस्य लक्ष्म्यो यस्याः सा भिन्नवक्रेन्दुलक्ष्मीः। बहुवचनान्तो बहुव्रीहिः । एवमपि एक. वचनान्तस्यैव लक्ष्मीशब्दस्योरःप्रभृतिषु पाठान्न तन्निमित्तः कप्प्रत्ययः। शैषिक