________________
४००
शिशुपालवधे
स्तु वैभाषिक इत्यविरोधः । काचिन्नारी दिवमनुविदधेऽनुचकार । काश्चिन्नार्यो दिश इवाश्रीका वीतशोभाः । उद्रान्तसत्त्वा उडान्तचित्ता उङ्गान्तजन्तुकाश्च सत्यः। अन्तरात्मनि मध्ये च दाहं संतापम् , अन्यत्रौत्पातिकं प्रज्वलनं दधिरे दधुः । अन्या नार्यों वात्या इव वातसमूहा इव । 'शाखादिभ्यो यः' इति यप्रत्ययः । प्रतिदिशं दिशि दिशि । 'अव्ययीभावे शरत्प्रभृतिभ्यः' इषि समासान्तष्टच्प्रत्ययः । भेमुर्बभ्रमुः । 'वा भ्रमुत्रसाम्' इति विकल्पादेत्वाभ्यासलोपौ । अपरा नार्यो भूमिवत् भूम्या तुल्यं कम्पमापुः। इतीत्थं पार्थिवानां प्रस्थाने प्रयाणे नायौँ भाव्य शुभं पुरः पूर्वं शशंसुः। सूचयामासुरित्यर्थः । अत्र नारीणां भाव्यशुभसूचनस्य रजोदाहादिवाक्यार्थहेतुकं काव्यलिङ्गम् । तत्र नारीणां द्युदिगाद्युपमाभिस्तद्रजोदाहादिवन्नारीरजोदाहादीनामशुभसूचकत्वमित्युपमाकाव्यलिङ्गयोरङ्गाङ्गिभावेन संकरः । संचारिणश्च पूर्ववद्विषादादयः सुगमाः । अत्र 'काश्चित्कीर्णा रजोभिर्दिवमनुविदधुर्भिन्नववेन्दुलक्षम्यो निश्रीकाः काश्चित्' इति पाठे काचित्कीर्णेत्येकवच. नप्रक्रमभङ्गे दोषो नास्ति । न चैवमुपमानोपमेययोभिन्नवचनत्वदोषः । लोकेषु चन्द्रादिष्वेकन नियतेषु दोषबुड्यनुदयात् । यथाह दण्डी-'न लिङ्गवचने भिन्ने न हीनाधिकतापि वा । उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥' इति । स्रग्धरावृत्तम् । 'म्रश्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरि विरचितशिशुपालवध. काव्यव्याख्यायां सर्वकषाख्यायां पञ्चदशः सर्गः ॥ १५ ॥
षोडशः सर्गः।
अथानन्तरसर्गे हरेश्चैद्यदूतसंवादं वर्णयतिदमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ । उपगम्य हरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥१॥ दमघोषेत्यादि ॥ अथ संनाहानन्तरं दमघोषसुतेन शिशुपालेन प्रतिशिष्टः प्रहितः प्रतिभानमस्यास्तीति प्रतिभानवान् । अवसरोचितोत्तरस्फुरणशक्तिमानित्यर्थः । कश्चन कश्चिहूतः हरि कृष्णमुपगम्य प्राप्य सदसि सभायां स्फुटौ भिन्नार्थों पृथगर्थौ प्रियाप्रियरूपौ यस्मिंस्तत्स्फुटभिन्नार्थम् । युगपदुभयार्थाभिधायकमित्यर्थः । तथैव वक्ष्यति-'उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते' इति । अदः इदं वक्ष्यमाणं वचः उदाहरयाहरत् । अस्मिन्सर्गे वैतालीयाख्यं मात्रावृत्तम् । षड्विषमेऽष्टौ समे कलाश्च समे स्युनों निरन्तराः । न समानपराश्रिता कला वैतालीयेऽन्ते रलौ गुरुः ॥' इति लक्षणात् ॥