________________
पञ्चदशः सर्गः।
३९७
प्रेति ॥ अचिरोढसुन्दरी काचिन्नवोढा स्त्री प्रविवत्सतः प्रवासं कर्तुमिच्छतः । वसेः सन्नन्तालटः शत्रादेशः । प्रियतमस्य प्रतिपादयुग्मं पादयुग्मे । विभक्त्यर्थेऽव्ययीभावः । नीलनलिनदलदामरुचि नीलोत्पलमालासच्छायमित्युपमा । निगडमिव शृङ्खलामिव चक्षुर्नेत्रमक्षिपत् । प्रेरयदित्यर्थः । चक्षुषो दूरे पदमपि गन्तुं न शशाकेत्यर्थः । तच्च दुर्निमित्तमिति भावः । प्रयाणे ख्यवलोकननिषेधात् । उक्तोपमासापेक्षा चक्षुषो निगडत्वोत्प्रेक्षेति संकरः ॥ व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् । धैर्यमभिनदुदितं शिशुना जननीनिभर्त्सनविवृद्धमन्युना ॥ ८७॥
ब्रजत इति ॥ जनन्याः अपशकुनभीतायाः मातुर्निभर्त्सनाद्विवृद्धमन्युना प्रवृद्धकोपेन शिशुना बालकेन हे तात जनक । 'तातस्तु जनकः पिता' इत्यमरः । व वजसि कुत्र व्रजसि इत्यस्फुटमुदितमुक्तम् । वदेः कर्मणि क्तः । 'वचि. स्वपि-' इत्यादिना संप्रसारणम् । व्रजसीति सरेफपदमपाटवादरेफमुच्चारितमित्यर्थः । तथापि परिचयादभ्यासपाटवागतार्थम् । पितृभ्यां केवलावगताभिधेयं वचनमिति शेषः । व्रजतः प्रस्थातुः धैर्य प्रयाणोत्साहमभिनत् । गमनकारिणो दुनिमित्तत्वादिति भावः । उक्तं च योगयात्रायाम्-'यानात्पुरा निपतनं बृहतीव काचिद्गर्भेण भारबृहती स्वपुरः स्थिता स्त्री। आगच्छ तिष्ठ कुत इत्यल. मर्थवाचिशब्दाश्च राजगमने प्रतिषेधकाः स्युः ॥' इति । अत्र दंपत्योदैन्यवि. पादचिन्ताशङ्कादयः संचारिणोऽनुसंधेयाः ॥ शठ नाकलोकललनाभिरविरतरतं रिरंससे । तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ण्ययापरा ॥ ८८ ॥
शठेति ॥ अपरा स्त्री रणरागिणं युद्धोत्साहिनं रमणं हे शठ वञ्चक, नाकलोकललनाभिः । अप्सरोभिः सहेत्यर्थः । 'सहयुक्तेऽप्रधाने' इति सहार्थे तृतीया वृद्धो यूनेतिवत् । अविरतरतमविच्छिन्नसुरतं यथा भवति तथा रिरंससे रन्तुमिच्छसि । रमेः सन्नन्ताल्लए । 'पूर्ववत्सनः' इत्यात्मनेपदम् । तेनाप्सरोरिरंसाकरणेन मुदं वहसीति ईय॑या सापल्याक्षमया अवदत् । अर्थाद्विरहासहनया प्रस्थानप्रतिषेधपरया व्याहृतमिदमेवास्य मरणशंसिनी दुरुपश्रुतिरिति भावः । ईात्र कण्ठोक्त एव संचारी ॥ ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रवः । स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ॥ ८९ ॥
ध्रियमाणमिति ॥ दयिते चलति प्रतिष्ठमाने सति नतध्रुवः वध्वाः अश्रु ध्रियमाणममङ्गलभिया धार्यमाणमपि । धरतेः कर्मणि लटः शानजादेशः । अगलदस्रवत् । शोकातिरेकाद्धारयितुमशक्यमासीदित्यर्थः । तथाहि अकृतकरसमकृत्रिमरागं स्नेहं प्रेम दधताम् अतएव अतिमुग्धचेतसामत्यन्ताकपटबुद्धीनामिदमेवासंवरणं युक्तम् । अन्यथा स्नेहव्याघातेन तत्कालविरुद्धमश्रुमोचनं नानुचितमिति
शिशु० ३४