SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ एकोनविंशः सर्गः। बाणाहिपूर्णतूणीरकोटरैर्धन्विशाखिभिः। गोधाश्लिष्टभुजाशाखैरभूद्धीमा रणाटवी ॥ ३९ ॥ बाणेति ॥ रणमेवाटवी रणाटवी बाणैरिवाहिभिः पूर्णा तूणीरा निषङ्गा एव कोटराः कुहरा येषां तैः गोधास्तलानि, निहाकाश्च । 'गोधा तले निहाकायाम्' इति विश्वः । तलं ज्याघातवारणम् । ततो गोधा एव गोधा इति श्लिष्टरूपकम् । ताभिराश्लिष्टा भुजा एव शाखा येषां तैर्धन्विभिर्धानुष्कैरेव शाखिभिवृक्षीमा भयंकरा अभूत् । समस्तवस्तुवर्णनात्सावयवरूपकम् ॥ ॥प्रतिलोमानुलोमपादः ॥ नानाजाववजानाना सा जनौषधनौजसा । परानिहाऽहानिराप तान्वियाततयाऽन्विता ॥ ४० ॥ नानेति ॥ इहास्यां नानाविधायामाजी चित्रयुद्धे ओजसा तेजसा अवजानाना अवज्ञां कुर्वती । 'अकर्मकाच्च' इत्यात्मनेपदम् । जनौधैर्घना सान्द्रा जनौ. घघना । बहुजनेत्यर्थः । अहानिरभया वियाततया वैयात्येन धाट्यनान्विता । सृष्टेत्यर्थः । 'सृष्टो पृष्णुर्वियातश्च' इत्यमरः । सा चैद्यसेना तान्परानरीनाप प्राप। अत्र प्रतिपादं पादास्यैवावृत्तेरर्धपादप्रतिलोमयमकम् ॥ विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः । श्लोकैरिव महाकाव्यं व्यूहैस्तदभवलम् ॥४१॥ विषममिति ॥ तद्बलं चैद्यसेना सर्वतोभद्रचक्रगोमूनिकादिभिः । आदिग्रहणान्मुरजवन्धादिसंग्रहः । श्लोकैर्महाकाव्यं शिशुपालवधादिकमिव व्यूहैः सर्वतोभद्रादिभिरेव बलविन्यासैः । 'व्यूहस्तु बलविन्यासे' इत्यमरः । विषमं दुरवग्रहमभवत् । नगनगरादिवर्णनयुक्तलक्षणं महाकाव्यम् ॥ संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया। ववले यो मुत्पन्नप्रतिभा स्वरसेन या॥ ४२ ॥ संहत्येति ॥ भास्वरा तेजिष्टा सेना यस्यास्तया भास्वरसेनया सात्वतां यदूनां संहत्या सङ्गेन चैद्यं प्रति ववले प्रचेले । 'वल चलने' इति धातो वे लिट् 'न शसददवादि-' इति वकारादित्वादेत्वाभ्यासलोपयोः प्रतिषेधः । या यदूनां संहतिः स्वरसेन स्वभावेन योद्धमुत्पन्नप्रतिभा संजातप्रतिभा या स्वयं रणकण्डूला सा पराहूता कथं निवर्तत इति भावः ॥ अथ यदुसेनायाः प्रतिबलाभियोगं युग्मेनाहविस्तीर्णमायामवती लोललोकनिरन्तरा । नरेन्द्रमार्ग रथ्येव पपात द्विषतां बलम् ॥४३॥ विस्तीर्णमित्यादि ॥ आयामवती द्राधीयसी लोललोकनिरन्तर चल
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy