________________
४७८
शिशुपालवधे
जनसंकुला सा सेनेत्युत्तरश्लोकेनान्वयः । सा यदुसेना विस्तीर्ण द्विपतां बलं नरेन्द्रमार्ग राजपथं रथ्येव विशिखेव पपात संजगाम । उपमानेऽपि विशेषणं योज्यम् ॥
वारणागगभीरा सा साराऽभीगगणारया । कारितारिवधा सेना नासेधा वरितारिका ॥४४॥
॥ युग्मम् ॥ वारणेति ॥ कीदृशी सेना वारणैरेवागैरचलैर्गभीरा दुरवगाहा वारणागगभीरा सा साराणां श्रेष्टानां न भियं गच्छन्तीत्यभीगानां निर्भीकाणां गणानां जन्तुसङ्घानामारवो यस्यां सा साराभीगगणारवा । कारितारिवधा कृतशत्रु. वधा । 'रामो राज्यमकारयत्' इतिवदन स्वार्थ णिच् । नास्त्यासेधः प्रतिषेधो यस्यां सा नासेधा । नअर्थेन नशब्देन बहुव्रीहिः । अनासेधा वा वरितारिका ईप्सितशत्रुका । अनेनाहं योत्स्य इति स्वयं वृतप्रतिभटेत्यर्थः । शैषिकः कप्प्र. त्ययः । सा सेना पपातेति पूर्वेणान्वयः। अत्र प्रातिलोम्येन अर्धावृत्तेरर्धप्रतिलोमयमकमेतत् । लक्षणं तूतं निध्वनदित्यादिश्लोकप्रतिलोमयमके ॥
अधिनागं प्रजविनो विकसत्पिच्छचारवः । पेतुर्बहिणदेशीयाः शङ्कवः प्राणहारिणः ॥ ४५ ॥ अधीति ॥ प्रजवन्तीति प्रजविनोऽतिजवनाः । 'प्रजोरिनिः' इति इनिन. त्ययः । विकसद्भिः पिच्छैः कलापैश्चारवः अत एव ईषदसमाप्तबर्हिणः बहिणदेशीया मयूरकल्पाः । 'ईषदसमाप्तौ-' इत्यादिना देशीयप्रत्ययः । प्राणहा. रिणः शङ्कवः शल्यायुधानि । 'वा पुंसि शल्यं शङ्कुर्ना' इत्यमरः । नागेवधिनागम् । विभक्त्यर्थेऽव्ययीभावः । गजेषु, सर्पेषु च निपेतुः । सपु बहिण इवे. त्यर्थः । अत एवोपमालंकारः । ‘ग्रहो ग्राहि गजा नागाः' इति वैजयन्ती ॥
॥ गोमूत्रिकाबन्धः॥ प्रवृ त्ते वि क स द्धा नं सा ध ने प्य वि षा दि मिः। व वृषे वि क न द्दा नं यु ध मा प्य वि षा णि भिः॥ प्रवृत्ते इति ॥ विकसजृम्भमाणो ध्वानो ध्वनिर्यस्मिंस्तद्यथातथा साधने संप्रहारे प्रवृत्तेऽप्यविषादिभिर्विषादरहितैर्विषाणिभिर्दन्तिभिर्युधमाप्य प्राप्य विकसत्प्रभूतं दानं मदो ववृषे । युद्धारम्भे धनदानं च ध्वन्यते सत्त्वसंपन्नत्वात् । साधनेऽप्यविषादस्याविरोधाद्विरोधाभासः । गोमूत्रिकाचित्रबन्धोऽयम् । 'वर्णानामेकरूपत्वं यद्येकान्तरमर्धयोः । गोमूत्रिकेति तत्प्राहुर्दुष्करं तद्विदो विदुः ॥' इति लक्षणात् । षोडशकोष्टद्वये पङ्किद्वयेऽर्धद्वयं क्रमेण विलिख्यैकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिरित्युद्धारः ॥