________________
४७६
शिशुपालवधे अभग्नेति ॥ अभग्ना अभङ्गुरा वृत्ता वर्तुलाग्राश्च यास्ता अभनवृत्ताः । विशेपणसमासः । अन्यत्राचलितचरित्राः । बहुव्रीहिः। मुष्टिग्राह्यं मुष्टिधार्य मध्यं यासां ताः धनुर्लताः अन्यत्र मुष्टिमेयमध्याः यौवनेनोद्धतैपष्टैप्तैश्च प्रसभावलादाकृष्टाः सत्यः । एकत्र गुणेष्वन्यत्र कचेषु चेति भावः । उच्चैस्तरां चक्रन्दुष्टं कारध्वनिं चक्रुर्धनुर्लताः, अन्यत्र चुक्रुशुश्च । अत्र प्रस्तुतधनुर्लताविशेषणादप्र. स्तुतधूर्तास्कन्दितपतिव्रताप्रतीतेः समासोक्तिः । तथा च आकर्षणस्य विशेषणगत्या क्रन्दनहेतुत्वात्काव्यलिङ्गाङ्गिभावेन संकीर्यते ॥
करेणुः प्रस्थितोऽनेको रेणुर्घण्टाः सहस्रशः ।
करेऽणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥ ३६ ॥ करेणुरिति ॥ अनेको बहु करेणुः करेणवः । प्रस्थितः । जातावेकवचनम् । असंख्याताः करिणो योद्धं ययुरित्यर्थः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । सहस्रशो घण्टाः करिकण्ठस्था रेणुर्दध्वनुः । 'अत एकहल्मध्येऽनादेशादेर्लिटि' इत्येत्वाभ्यासलोपौ । करे पुष्करे अणुरल्पः शीकरोऽम्बुकणो जज्ञे । जातावेकवचनम् । करेप्वणवः शीकरा जाता इत्यर्थः । जनेः कर्तरि लिट् । तेनाणुना शीकरण रेणू रजः शमं ययौ । एतेन करिणां बाहुल्यं व्यज्यते ।
धृतप्रत्यग्रशृङ्गाररसरागैरपि द्विपैः।।
सरोषसंभ्रमैर्बभ्रे रौद्र एव रणे रसः ॥ ३७॥ धृतेति ॥ धृतः प्रत्यग्रः शृङ्गाररस एव रागो यैस्तैरपीति विरोधः । रौद्रशृगारयोर्विरोधित्वाद्धृतसिन्दूररञ्जनैरित्यविरोधः । अत एव विरोधाभासोऽलं. कारः। 'शृङ्गारः सुरते नाट्ये रसे च गजमण्डने । शृङ्गारं चूर्णसिन्दूरे लवङ्गकुसुमेऽपि च ॥' इति विश्वः । सरोषसंभ्रमैः द्विपः रणे रौद्रस एव क्रोधरस एव बभ्रे भृतः। कर्मणि लिट् ॥
न तस्थौ भर्तृतः प्राप्तमानसंप्रतिपत्तिषु । रणैकसर्गेषु भयं मानसं प्रतिपत्तिषु ॥ ३८ ॥ नेति ॥ भर्तृतः स्वामिनः प्राप्ते मानसंप्रतिपत्ती पूजासौमनस्ये यैस्तेषु प्राप्तमानसंप्रतिपत्तिषु रणे एकसर्गेषु नियतोत्साहेपु नियतनिश्चयेषु वा । 'सर्गास्तु सजनाध्यायस्वभावोत्साहनिश्चयाः' इति वैजयन्ती । पत्तिषु पदातिषु । मानसं प्रति । पत्तीनां मानसेष्वित्यर्थः । 'कर्मप्रवचनीययुक्ते द्वितीया' । भयं न तस्थौ पूर्वोपकारस्मारिणो रणाय निर्भीकाः प्रातिष्टन्तेत्यर्थः। अन्यथा 'यस्तु भीतिपरावृत्तः संग्रामे हन्यते परैः । भर्तुर्यदृष्कृतं किंचित्तत्सर्व प्रतिपद्यते ॥ यदस्य सुकृतं किंचिदमुत्रार्थमुपार्जितम्। भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥' इति निषेधस्मरणादिति भावः । अत्र मानसंप्रतिपत्त्योर्विशेषणगत्या भयानवस्थानहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गं यमकेन संसृज्यते ॥