________________
एकोनविंशः सर्गः।
४७६ धौतामसिलतां दधानः अलसं पदं दधौ । सर्वोऽपि निःशङ्कमाक्रमतेत्यर्थः । अत्र स्वर्गेच्छया विशेषणगत्या निःशङ्कप्रस्थानहेतुत्वात्काव्यलिङ्गं तद्यमकेन संसृज्यते ॥
कृतोरुवेगं युगपद्यजिगीषन्त सैनिकाः।
विपक्षं बाहुपरिधैर्जङ्घाभिरितरेतरम् ॥ ३२ ॥ कृतेति ॥ सेनायां समवेताः सैनिकाः सैन्याः । सेनायाः पाक्षिकष्ठक् । बाहुभिः परिधैरिव बाहुपरिघैः बाहुदण्डैः विपक्षं शत्रु जङ्घाभिः प्रसृताभिः । 'जङ्घा तु प्रसृता' इत्यमरः । इतरेतरमन्योन्यं सयूथीयमेव कृत उरुर्महानूर्वाश्च वेगो यस्मिन्कर्मणि तद्यथा तथा युगपद्ध्यजिगीषन्त विजेतुमैच्छन् । अहमहमिकया योद्धमधावन्नित्यर्थः । विपूर्वाजयतेः सन्नन्ताल्लङि 'पूर्ववत्सनः' इत्यात्मनेपदम् । अत्र विपक्षसयूथयोर्बाहुजङ्घयोश्च प्रकृतत्वात्केवलप्रकृतास्पदा तुल्ययोगिता ॥
वाहनाजनि मानासे साराजावनमा ततः।
मत्तसारगराजेभे भारीहावजनध्वनि ॥ ३३ ॥ वाहनेति ॥ ततोऽनन्तरं मानमभिमानं अस्यति क्षिपतीति तस्मिन्मानासे पराहकारहारिणि । कर्मण्यण् । मत्ताः सारगा बलभाजश्च राजेभा नृपगजा यस्मिन्मत्तसारगराजेभे साराजी श्रेष्टयुद्धे । आजेः पुंलिङ्गता ज्ञेया। भारी भार• वान् पूर्ण ईहावतामुत्साहवतां जनानां ध्वनियस्मिंस्तत् भारीहावजनध्वनि यथा तथा न नमतीत्यनमा अभङ्गुरा । पचाद्यजन्तेन नसमासः । वाहना निर्वाहयितृत्वम् । ‘ण्यासश्रन्थो युच्' । अजनि जाता। सैनिकानामित्यर्थात्सिद्धम् । जनेः कर्तरि लुङि 'दीपजन-' इत्यादिना चिण् ॥ एतत्प्रातिलोम्येन श्लोकान्तरमाह
॥श्लोकप्रतिलोमयमकम् ॥ निध्वनञ्जवहारीभा भेजे रागरसात्तमः ।
ततमानवजारासा सेना मानिजनाहवा ॥३४॥ निध्वनदिति ॥ निध्वनन्तो बृहन्तो जवा जवनाः हारिणो मनोहराश्चेभा यस्यां सा निध्वनजयहारीभा। ततो विस्तृतो मानवजो मनुष्यजातः आरासः कलकलो यस्यां सा ततमानवजारासा मानिनां मानवतां जनानामाहवो यस्यां सा मानिजनाहवा सेना रज्यतेऽनेनेति रागः क्रोधः स एव रसस्तस्मादागरसात् तमो मोहं भेजे । क्रोधान्धाजनीत्यर्थः । अत्र प्रातिलोम्येन पूर्वश्लोकावृत्तेः श्लोकप्रतिलोमयमकम् । तदुक्तं दण्डिना-'आवृत्तिः प्रातिलोम्येन पादार्धश्लोकगोचरा । यमकं प्रतिलोमत्वात्प्रतिलोममिति स्मृतम् ॥' इति ॥
अभनवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः । चक्रन्दुरुच्चकैसृष्टिग्राह्यमध्या धनुर्लताः ॥ ३५ ॥