________________
शिशुपालवधे
जित् । जयतेः विप् । जजतीति जाजी योधी। ताच्छील्ये णिनिः। भतिततानत्युद्धतानतितुदति अतिव्यथयतीत्यतितुत् । तुदतेः क्विप् । भस्याभेवाभा यस्य स भाभो नक्षत्रकान्तिः। 'नक्षत्रमृक्षं भं तारा' इत्यमरः। नास्ति भीर्येषां तेऽभियो निर्भीकाः तानिभान्गजानभिभवतीति अभीभाभिभूः। क्विप् । तस्याः भासस्तेजसो भूः स्थानम् अभीभाभिभूभाभूः। अराः सन्त्येषामित्यरीणि चक्राणि तैः रिणन्ति गच्छन्तीति अरिरयो रथाः। ‘री गतिश्लेषणयोः' इति धातोः विप् । तेषां ईरं प्रेरणं राति अरिरीररो रथिकः । 'आतोऽनुपसर्गे कः' । अरिः शत्रुर्बलभद्रः तं वेणुदारिगं आर। यो माससारेत्यर्थः। 'ऋ गतो' इति धातोलिट् द्विर्भावे कृते णलि वृद्धिः अभ्यासस्योरदत्वे 'अत आदेः' इति दीर्धे पुनः सवर्णदीर्घः । भिन्नैकाक्षरपादाख्योऽनुप्रासभेदः। भाभ इत्युपमानुप्रासयोरेकवाचकानुप्रवेशलक्षणसंकरः ॥
भवन्भयाय लोकानामाकम्पितमहीतलः। निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥ ४ ॥ भवन्निति ॥ लोकानां जनानां, जगतां, च 'लोकस्तु भुवने जने' इत्यमरः । भयाय भवनसंपद्यमानः । भयं जनयन्नित्यर्थः । 'क्लपि संपद्यमाने च' इति क्लुपेरर्थनिर्देशाच्चतुर्थी । आकम्पितमहीतलः । भूकम्पं कुर्वन्नित्यर्थः । निर्घोषेण भीमो भयंकरः तस्य बलभद्रस्य रथो निर्घात इवापतदधावत् । श्रौती पूर्णोपमा॥
रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।
कोपादथैनं शितया महेष्वा स विचक्षणे ॥५॥ राम इति ॥ रिपुर्वेणुदारी आजिमहेषु रणोत्सवेष्विति रूपकम् । 'मह उद्धव उत्सवः' इत्यमरः। विचक्षणे प्रगल्भे । विचष्ट इति कर्तरि ल्युडिति न्यासकारः 'असनयोश्च प्रतिषेधो वक्तव्यः' इति चक्षिङः ख्याजादेशाभावः । रामे वलभद्रे शरान् आस चिक्षेप । अस्यतेर्लिट् 'अत आदेः' इत्यभ्यासदीधै सवर्णदीर्घः । कोपात्स राम एनं वेणुदारिणं शितया शातया। 'शाच्छोरन्यतरस्याम्' इतीत्वम् । महेष्वा महेषुणा । 'पत्री रोप इपुर्द्वयोः' इत्यमरः । विचक्षणे जघान। 'क्षणु हिंसायाम्' इति धातोः कर्तरि लिट् । अभिन्नसमपादो नाम पादाभ्यासयमकभेदः। एवमुत्तरत्रापि द्रष्टव्यम् ॥
दिशमर्कमिवावाची मागतमपाहरत् ।
मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः॥६॥ दिशमिति ॥ मूर्छागतं रामेषुपातान्मोहमुपगतम् । अत एव मन्दप्रतापमल्पप्रकाशं तं वेणुदारिणमवाची दक्षिणां दिशं प्राप्तम् । अत एव मन्दप्रतापमर्कमिव सूतः सारथिरनूरुश्च आजेविहायसः आकाशादिवाजिविहायस इत्युपमितसमासः । शीघ्रमपाहरदपसारितवान् । उपमालंकारः ॥