________________
एकोनविंशः सर्गः ।
एकोनविंशः सर्गः ।
Trates
तदेवमष्टादशसर्गे तुमुलं युद्धमभिधायेदानीमे कोनविंशतिसगँ द्वन्द्वयुद्धमानुटुभेन छन्दसा चित्रबन्धेन वर्णयितुमारभते —
अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा । नृपाङ्घिपौघसंघर्षादग्निवद्वेणुदारिणा ॥ १ ॥
४६७
अथेत्यादि ॥ अथैवं तुमुलयुद्धानन्तरं। रणोऽटवीवेत्युपमितसमासः । अभिबदिति तद्धितैौपम्यलिङ्गात् । एवमुत्तरत्रापि द्रष्टव्यम् । तस्यां रणाटव्यामसुहृदः शत्रवो वेणवे वंशा इव । 'वेणुमस्करतेजनाः' इति वंशपर्यायेध्वमरः । तान्दारयति यस्तेनासुहृद्वेणुदारिणा वेणुदारिणा बाणात्मजेन नृपा अङ्घ्रिपाः पादपा इव तेषामोघाः सङ्घास्तेषां संघर्षान्मत्सराच्छेषाच्च अग्निवदग्नितुल्यम् । 'तेन तुल्यम् -' इति तुल्यार्थे वतिप्रत्ययः । उत्तस्थे उत्थितम् । भावे लिट् । अत्राग्निचदिति तुल्यार्थेन वतिना धर्मव्यवधाने सादृश्यप्रतिपादिना उपमानोपमेयसमानधर्मसादृश्यप्रतिपादकानां चतुर्णां चोपादानाश्चेयमार्थी तद्धितगता पूर्णोपमा । सा च रणाटव्यादिसमासगतोपमासापेक्षेति संकरः । सर्गेऽस्मिन्नानुष्टुभं वृत्तम् । 'पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषामेतच्छुोकस्य लक्षगम् ॥' इति तलक्षणात् । अत्रैकान्तरक्रमेण यमकाद्यन्यतमशब्दालंकारनियमः सर्वत्र यथासंभवमर्थालंकारश्च । तंत्र यमकलक्षणमुक्तं दण्डिना - 'अव्यपेतव्यपेतारमा व्यावृत्तिर्वर्ण संहतेः । यमकं तच्च पादानामादिमध्यान्तगोचरम् ॥ एकद्वित्रिचतुष्पादैर्यमकानां विकल्पना । आदिमध्यान्तमध्यान्तमाध्याद्याद्यान्त सर्वतः ॥ इति । अत्रेदं समपादान्तं यमकं द्विपादयमकभेदः ॥
आपतन्तममुं दूरादूरीकृतपराक्रमः । arotsaahयामास मातङ्गमिव केसरी ॥ २ ॥
आपतन्तमिति ॥ आपतन्तमाधावन्तमसुं वेणुदारिणं दूरात् ऊरीकृतपराऋनोऽङ्गीकृतपौरुषस्तेन । सहानुगतसंप्रहार इत्यर्थः । बलो बलभद्रः केसरी सिंहो मातङ्कं गजमिवावलोकयामास । अनयोरिव तदन्तरमिति भावः । अतोऽलंकारेण वस्तुध्वनिः ॥
जजौजोजाजिजिज्जाती तं ततोऽतिततातितुत् । भाभोsभीभाभिभूभाभूरारारिररिरीररः ॥ ३ ॥
॥ एकाक्षरपादः ॥
जाविति ॥ ततोऽवलोकनानन्तरं जजन्तीति जजा योधाः । 'जज युद्धे' पचाद्यच् । जजानामोजसा जाता जजोजोजा तामाजिं जयतीति नजौजोजा जि