________________
शिशुपालवधे कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः । बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ ७९ ॥
कीर्णेति ॥ अप्राणद्भिरजीवद्भिः। भिन्नत्वान्निष्प्राणरित्यर्थः । 'अन प्राणने' इति धातोर्लटः शनादेशः। प्राणभाजां प्राणिनां प्रतीकैरवयवैः। 'अङ्गं प्रती. कोऽवयवः' इत्यमरः। समन्तात्कीर्णा सा आजिभूमिः ईषदसमाप्तारम्भैरिति बरारम्भैः। किंचिदूनसृष्टैरित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात्तु' इति बहु
प्रत्ययः। तथासंयोजितैरर्धसृष्टैश्च रूपैराकारैः । 'रूपं स्वरूपे सौन्दर्य आकारश्लेषयोरपि' इति विश्वः। कीर्णा स्रष्टुः धातुः सृष्टिकर्मान्तशाला वा। सृष्टि. कर्मणो नियतागारमिव रेज इत्युत्प्रेक्षा ॥
आयन्तीनामविरतरयं राजकानीकिनीना
मित्थं सैन्यैः सममलघुभिः श्रीपतेरूमिमद्भिः। आसीदोधैर्मुहुरिव महद्वारिधेरापगानां
दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥ ८० ।। इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके संकुलयुद्ध
वर्णनो नामाष्टादशः सर्गः ॥ १८॥ आयन्तीनामिति ॥ इत्थमुक्तरीत्या अविरतरयमविच्छिन्नवेगं यथा तथा आयन्तीनामभिधावन्तीनामौद्धत्यभाजां प्रागल्भ्यभाजां राज्ञां समूहा राजकानि । 'गोत्रोक्ष-' इत्यादिना वुञ् प्रत्ययः। तेषामनीकिन्यः सेनास्तासां राज. कानीकिनीनां अलघुभिर्महद्भिरूमिमद्भिस्तरङ्गवद्भिः श्रीपतेः कृष्णस्य सैन्यैः समं सेनाभिः सह अपां समूह आपम् । 'भिक्षादिभ्योऽण् । आपेन गच्छ. न्तीति आपगानामुक्तविशेषणविशिष्टानां वारिधेरोघैः प्रवाहैरिव कृतो गुरुतरध्वनिमहाध्वनियस्मिंस्तन्महद्दोलायुद्धं अनियतजयपराजययुद्धं मुहुरासीत् । उपमा । मन्दाक्रान्ता वृत्तमेतत् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध
काव्यव्याख्यायां सर्वंकषाख्यायामष्टादशः सर्गः ॥ १८ ॥