________________
अष्टादशः सर्गः। नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन । योद्धर्बाणप्रीतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥७६॥
नैरन्तर्येति ॥ नैरन्तर्येणाविच्छेदेन छिन्नं देहस्यान्तरालं यस्मिन्कर्मणि तद्यथा तथा बाणैः प्रोतं स्यूतम् अत एव दुर्भक्षस्य भक्षितुमशक्यस्य । कृच्छ्रार्थे खलप्रत्ययः। योद्धर्योधस्य संबन्धि मांसं ज्वालिना ज्वालावता वाशितेन रुतेन । शिवानां वाशने जिह्वा ज्वलतीति प्रसिद्धिः । आदीप्य प्रज्वाल्य । बाणदाहाय मांसपाकाय चेति भावः । अत एव पाकेनापूर्वोऽभिनवः स्वादो रुचियस्य तत्तथा शिवाभिर्गोमायुभिः। 'स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः' इत्यमरः । आदे जघसे। भक्षितमित्यर्थः। 'लिट्यन्यतरस्याम्' इति विकल्पाददेन घस्लादेशः। वाशितोत्थया जिहाज्वालया दग्धेषुप्रतिबन्धेन पाकरुचिरं जघस इत्यर्थः। अत्र पाकपूर्वस्वादाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः॥ ग्लानिच्छेदी क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् । स्वादुकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद्यस्खनच्च ॥७७॥
ग्लानीति ॥ कोष्टा जम्बुकः क्षुत्प्रबोधाय ग्लानिच्छेदी खेदहारी शोषितो जारितः अजीर्णशेषो येन तद्रक्तमेवारिष्टं पानविशेष इति रूपकम् । तत्पीत्वा स्वादुंकारं स्वादूकृत्य । 'स्वादुमि-' इति णमुल । कालखण्डेन यकृता उपदंशम् । कालखण्डमुपदंशं कृत्वेत्यर्थः। 'कालखण्डयकृती तु समे' इत्यमरः। 'उपदंशस्तृतीयायाम्' इति णमुल । कालखण्डस्य दशनक्रियाकर्मत्वेऽपि भुजिक्रियाकरणत्वात्तृतीयोपपदतया 'तृतीयाप्रभृतीन्यन्यतरस्याम्' इति विकल्पेनोपपदसमासः। डिम्बं कलेवरं व्यष्वणत् । भुक्तवानित्यर्थः। 'वेश्च स्वनो भोजने' इति पत्वम् । व्यस्वनदवादयच्चेति समुच्चयः। अभोजनार्थत्वात्पत्वं न॥ क्रव्यात्पूगैः पुष्कराण्यानकानां प्रत्याशाभिर्मेदसो दारितानि। आभीलानि प्राणिनःप्रत्यवस्सन्कालो नूनं व्याददावाननानि।।७८॥
क्रव्यादिति ॥ क्रव्यमदन्तीति ऋव्यादो मांसभक्षकाः कङ्कगृध्रादयः। 'क्रव्ये च' इति विट् प्रत्ययः। तेषां पूगैः कर्तृभिः मेदसो वसायाः। 'मेदस्तु वपा बसा' इत्यमरः। प्रत्याशाभिस्तृष्णाभिर्दारितानि मेदस्वित्वभ्रान्त्या पाटितान्यानकानां तूर्याणां पुष्कराणि मुखानि । 'पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले' इत्यमरः । प्राणिनः करितुरगादीन्प्रत्यवस्यन्नभ्यवहरन् । 'अभ्यवहारः प्रत्यकसनं भोजनं जग्धिः' इति हलायुधः। कालोऽन्तकः आभीलानि भयंकराणि । 'आभीलं भीमकृच्छ्रयोः' इति विश्वः। आननानि व्याददौ विददार। 'आङो दोऽनास्यविहरणे' इत्यस्य प्रत्युदाहरणमेतत्। यानि विदारितानि पुष्कराणि तान्येवाननानि । नूनमित्युत्प्रेक्षायाम् ॥