________________
शिशुपालवधे पद्माकारैरिति ॥ उच्चैर्वी चिषु तरद्भिः प्लवमानैः पद्माकारैः कमलकरुपैर्योध. वर्भटमुखैरिभानां कर्णेभ्यो भ्रष्टैश्वामरैहँसैः सोपस्काराः सपरिकराः । 'संपर्युपेभ्यः करोती भूषणे' इति सुडागमः । अत्रतोया रक्तजलाः स्रोतस्विन्यो नद्यः प्रावहन् । अत्र रूपकोपमयोः संकरः सुगमः ॥ उत्क्रान्तानामामिपायोपरिष्टादध्याकाशं बभ्रमुः पत्रवाहाः । मूर्ताः प्राणा नूनमद्याप्यवेक्षामासुः कायं त्याजिता दारुणास्त्रैः ७३
उत्क्रान्तानामिति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणः । आमिषाय आमिषमत्तुम् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' इति चतुर्थी । उत्क्रान्तानां मृतानामुपरिष्टादध्याकाशमाकाशे। विभक्त्यर्थेऽव्ययीभावः । बभ्रमुःभ्रेमुः। 'वा
भ्रमुत्रसाम्' इति विकल्पादेत्वाभ्यासलोपाभावः । अत्रोत्प्रेक्ष्यते । दारुणास्त्रै?रास्त्रैः कायं त्याजिता विसर्जिताः । त्यजेय॑न्ताद्द्विकर्मकात्कर्मणि क्तः । ‘ण्यन्ते कर्तुश्च कर्मणः' इति वचनात् । मूर्ता मूर्तिमन्तः प्राणा अद्येदानीमपि कायमवेक्षामासुः पूर्वाभिमानात्पुनः कायप्रवेशापेक्षिणो मूर्ताः प्राणा एव नूनमारान्द्रमन्ती. त्युत्प्रेक्षार्थः । 'इजादेश्च गुरुमतोऽनृच्छः' इत्याम्प्रत्ययः 'कृञ्चानुप्रयुज्यते लिटि' इत्यस्तेरनुप्रयोगः 'आम्प्रत्ययवत्-' इत्यत्र कृञ एवेति नियमादस्ते त्मनेपदम् ॥ आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैर्दूरादाशु तीक्ष्णैर्मुखाग्रैः । आदौ रक्तं सैनिकानामजीवै वैः पश्चात्पत्रिपूगैरपायि ॥ ७४ ॥
आतन्वद्भिरिति ॥ दिक्षु पत्राननादं पक्षान्तघोषमातन्वद्भिर्विस्तृणद्भिर्दूरादाशु प्राप्तैरागतैरजीवरचेतनैः । पचाद्यजन्तेन नन्समासः । पत्रिपूगैः । बाणवातैरित्यर्थः । तीक्ष्णैर्मुखाग्रैः करणैः सैनिकानां रक्तमपायि पीतम् । पिबतेः कर्मणि लुङ् । 'अतो युक्किण्कृतोः' इति युगागमः । पश्चाजीवैश्चेतनैः पत्रिपूगैः पक्षिसङ्घः कर्तृभिस्तीक्ष्णैर्मुखात्रैश्च पुटैः करणैरपायि । अनोभयेषां पत्रिणां प्रकृतत्वात्केवलप्रकृतविषयः श्लेषः ॥ ओजोभाजां यद्रणे संस्थितानामादत्तीनं सार्धमङ्केन नूनम् । ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥५॥
ओजोभाजामिति ॥ दीप्ता ज्वलन्ती जिह्वा यस्याः सा दीप्तजिह्वा शिवा । रणे संस्थितानां मृतानामोजोभाजामोजस्विनामङ्गेन गात्रेण साधं यत्तीनं तिग्म तेज आददभक्षयत् । अदेर्लङ् 'अदः सर्वेषाम्' इत्यडागमेऽपृक्तस्य 'आडजादीनाम्' इत्याडागमोऽङ्गस्य 'आटश्च' इति वृद्धिः । तदन्तरन्तरेऽन्तरितं तेजो ज्वालाव्याजान्मुखोल्काच्छलादुद्वमन्ती तारमुच्चैर्ववाशे रौति स्म । 'तिरश्चां वाशितं रुतम्' इत्यमरः । नूनमित्युत्प्रेक्षायाम् । अत्र व्याजशब्देन ज्वालात्वापह्नवेन तेजस्त्वोत्प्रेक्षणे सापह्नवोत्प्रेक्षेति सर्वस्वकारः ॥