________________
अष्टादशः सर्गः ।
४६३
रेजुरिति ॥ व्यसूनां मृतानां पार्थिवानां वक्षसो भ्रष्टाः पतिताः कुङ्कुमाङ्काः । कुङ्कुमारुणिता इत्यर्थः । मुक्ताहाराः पूर्णकामस्य सकलराजक संहारात्स फलमनोरथस्य अत एव पीतं रक्तमेवासवं येन तस्य मृत्योः हासादट्टहासाल्लक्ष्या दृश्या दन्ता रेजुरिति मन्ये इत्युत्प्रेक्षा ॥ निम्नेष्वोघीभूतमस्त्रक्षतानामत्रं भूमौ यवकासांचकार । रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तःपुरस्य ६९
निम्नेष्विति ॥ भूमौ निम्नेषु निम्न्नस्थलेष्वोघीभूतं राशीभूतमस्त्रक्षतानां संबन्धि यदस्रं रक्तं चकासांचकार दिदीपे । 'चकासृ दीप्तौ' इति धातोर्लिट् । 'कास्यनेकाच आम्वक्तव्यः' इत्याम्प्रत्यये कृञोऽनुप्रयोगः । तदस्रमन्तकान्तःपुरस्य कृतान्तावरोधस्य संख्यानानामुत्तरीयाणां रागार्थ रञ्जनार्थं कुसुम्भस्येदं कौसुम्भं अम्भः किं नु कुसुम्भद्रवो नु वेत्युत्प्रेक्षा ॥ रामेण त्रिःसप्तकृत्वो हदानां चित्रं चक्रे पञ्चकं क्षत्रियासैः । रक्ताम्भोभिस्तत्क्षणादेव तस्मिन्संख्येऽसंख्या: प्रावहन्द्वीपवत्यः ७०
रामेणेति ॥ रामेण भार्गवेण सामर्थ्यात्रीन्वारान् त्रिः । 'द्वित्रिचतुर्भ्यः सुच्' इति सुच्प्रत्ययः । त्रिरावृत्ताः सप्त त्रिःसप्तकृत्वः । एकविंशतिवारानित्यर्थः । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इति कृत्वसुच् प्रत्ययः । क्षत्रियात्रै राजन्यरक्तैः चित्रमद्भुतं हृदानां पञ्च परिमाणमस्य पञ्चकम् | 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' इति सङ्घार्थे कन्प्रत्ययः । चक्रे कृतम् । तस्मिन्संख्ये युद्धे । 'मृधमास्कन्दनं संख्यम्' इत्यमरः । क्षणादेव रक्तैरेवाम्भोभिः असंख्या द्वीप - वत्यो नद्यः प्रावहन्प्रासरन् । रामेण बहुकालेन च स्यमन्तपञ्चकाख्यं इदपञ्चकमेव कथंचित्कृतम् । अत्र तु क्षणमात्रेणा संख्या नद्यः प्रवृत्ता इत्युपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकालंकारः ॥
संदानान्तादस्त्रिभिः शिक्षितास्त्रैराविश्याधः शातशस्त्रावलूनाः । कूर्मौपम्यं व्यक्तमन्तर्नदीनामैभाः प्रापन्नमयोऽसृङ्मयीनाम् ॥ ७१ ॥
संदानान्तादिति ॥ शिक्षितास्त्रैरभ्यस्तास्त्रविधैरस्त्रिभिरायुधीयैः अधः रथानामधस्तादाविश्य प्रविश्य संदानान्ताद्बन्धनप्रदेशात् । गुल्फप्रदेशमधिकृत्येत्यर्थः । 'संदानं पशूनां पादबन्धनम्' इति विश्वः । शातं शितम् । 'शाच्छोरन्यतरस्याम्' इति विकल्पादीत्वाभावः । तेन शस्त्रेणावलूनाच्छिन्नाः । इभानामिमे ऐभाः अङ्गयश्चरणाः असृङ्मयीनां रक्तविकाराणां नदीनामन्तरभ्यन्तरे व्यक्तं कुमौपम्यं कमठोपमाम् । स्वार्थे ष्यञ्प्रत्ययः । अत एवौपम्यादयः चातुर्वर्ण्यवदिति वामनः । I प्रापन्प्राप्ताः । आपो लुङि 'पुषादि -' इति चलेरङादेशः । उपमा ॥ पद्माकारैर्योधवत्रैरिभानां कर्ण भ्रष्टैश्वामरैरेव हंसैः । सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषूच्चैस्तरद्भिः॥७२॥