________________
शिशुपालवधे कश्चिच्छस्त्रापातमूढोऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय । व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः६४
कश्चिदिति ॥ शस्त्रापातमूढः प्रहारमूर्च्छितः कश्चिद्वीरश्चेतना संज्ञां लब्ध्वा अपवोदुर्मू समये युद्धभूमेरपनेतुः सख्युमित्रस्योञ्चैः क्रोशतः आगच्छागच्छे. त्याक्रोशति सति । 'षष्ठी चानादरे' इति षष्ठी । कोशन्तमनादृत्येत्यर्थः । भूयः पुनरपि आहवाय रणाय व्यावर्तिष्ट, आत्मा देहस्त्यक्तश्च । तथाहि । लोकानुवृत्तिश्च का । नैवेत्यर्थः । सुहृजनानुरोधस्तु हितानर्थिनः परिच्छेत्तुं वृथेत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ भिन्नोरस्कौ शत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषुणैव । अन्योन्यावष्टम्भसामर्थ्ययोगादूर्वावेव स्वर्गतावप्यभूताम् ॥६५॥
भिन्नोरस्काविति ॥ शत्रुणा दूरादाकृष्य आसन्नत्वात्तयोरित्यर्थः । संनिकृष्टस्वादेकेषुणैव भिन्नोरस्कौ विदारितवक्षसौ कौचिद्वीरावन्योन्यावष्टम्भ एव सामध्यं तस्य योगात्स्वभावादूर्वावेव ऊर्ध्व तिष्ठन्तावेव स्वर्गतावपि मृतावभूताम् । अपिश्चार्थः । तत्र मृतयोरूर्वावस्थानासंबन्धेऽपि संबन्धोक्तरतिशयोक्तिः ॥ भिन्नानस्त्रैर्मोहभाजोऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् । जीवनाहं ग्राहयामासुरन्ये योग्येनार्थः कस्य न स्याजनेन ॥६६॥
भिन्नानिति ॥ अन्ये वीरा अभिन्नान्विदारितान् अत एव मोहभाजो मूर्छाभाजो मूर्छागतानभिजातान्कुलीनान् । 'अभिजातः स्थितौ न्याये कुलीनप्राप्तयोरपि' इति विश्वः । हन्तुं लोकमुत्सुकं स्ववर्ग वारयन्तः जीवं गृहीत्वा जीवग्राहं ग्राहयामासुः । जीवमेव ग्राहयामासुरित्यर्थः । 'समूलाकृतजीवेषु हन्ग्र हः' इति णमुलप्रत्ययः । कषादित्वादनुप्रयोगः । जीवग्रहणप्रयोजनमर्थान्तरन्यासेनाह-तथाहि । योग्येन जनेन हेतुना कस्य पुंसोऽर्थः कीर्त्यादिप्रयोजनं न स्यात् । स्यादेव सर्वस्यापीत्यर्थः । अतो वीराणां रणेष्वप्यतिपरिक्षतरक्षणमेव श्रेयः । 'नातं नातिपरिक्षतम्' इति हनननिषेधादिति भावः ॥ भग्नर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि । आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि म भान्ति ६७
भग्नैरिति ॥ भग्नैर्दण्डैहेतुना। भग्नदण्डस्वादिति भावः । भूमौ पर्यस्तान्युत्तानपतितानि । प्रौढचन्द्रधुतीनि पूर्णेन्दुप्रभाण्यातपत्राणि । श्वेतच्छन्त्राणीत्यर्थः । प्रेतराजस्यान्तकस्याहाराय भोजनाय स्थापितानि विहितानि रौप्यस्थालानि राजतभाजनानीव भान्ति स्मेत्युत्प्रेक्षा ॥ रेजुभ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् । हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य।।६८॥