________________
११६
शिशुपालवधे भागुरिल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । एकनालावलम्बिफलद्वयवदेकशब्देनार्थद्वयप्रतीतेरर्थश्लेषोऽयं प्रकृताप्रकृतगोचरः । उपमा त्वङ्गमिति संकरः ॥
आरक्षमग्रमवमत्य सृणिं शिताग्र
मेकः पलायत जवेन कृतार्तनादः । अन्यः पुनर्मुहुरुदप्लवतास्तभार
मन्योन्यतः पथि बताबिभितामिभोष्ट्रौ ॥ ५ ॥ __आरक्षेति ॥ पथि मार्गे इभोष्ट्रावन्योन्यतोऽन्योन्यस्मादबिभितां भीतवन्तौ । 'जिभी भये' लङ् । 'भियोऽन्यतरस्याम्' इतीत्वम् । बतेत्यनयोरपि भीतिरिति खेदेऽतिविस्मये वा । 'खेदानुकम्पासंतोषविस्मयामन्त्रणे बत' इत्यमरः । तत्र लिङ्गमाह-एक इभ आरक्षः कुम्भयोरधःप्रदेशस्तत्र मग्नं प्रविष्टं शिताग्रं तीक्ष्णमुखं सृणिमडशम् । 'अङ्कुशोऽस्त्री सृणिर्द्वयोः' इत्यमरः। अवमत्यावधूय कृत आर्तनादो येन सः । अतिकरुणं क्रन्दन्नित्यर्थः। जयेन पलायत पलायितवान् । परापूर्वादयतेलुङ् । 'उपसर्गस्यायतौ' इति रेफस्य लत्वम् । अन्यः पुनरुष्ट्रस्तु अस्तभारं निरम्तभारं यथा तथा मुहुरुदप्लवतोप्लवितवान् । 'लु गतौ' इति लङ् । स्वभावोक्तिः ॥
आयस्तमैक्षत जलश्चटुलाग्रपादं
गच्छन्तमुच्चलितचामरचारुमश्वम् । नागं पुनर्मुदु सलीलनिमीलिताक्षं
सर्वः प्रियः खलु भवत्यनुरूपचेष्टः ॥६॥ आयस्तमिति ॥ जनश्चटुलाग्रपादं चञ्चलपूर्वचरणं यथा तथा गच्छन्तम् । शीघ्रं धावन्तमित्यर्थः । उच्चलितैरुल्लसितैश्चामरैश्चारुमश्वमायस्तं सयनमाहृतं यथा तथा । 'यसु प्रयत्ने' कर्तरि क्तः । क्लान्तं क्रियाविशेषणम् । ऐक्षत ईक्षितवान् । ईक्षतेर्लङ् 'आडजादीनाम्' इत्याटि 'आटश्च' इति वृद्धिः । नागं पुनर्गजं तं सलीलं निमीलिते अक्षिणी यस्मिन्कर्मणि तत् । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्पन्' । मृदु मन्दं गच्छन्तमायस्तमैक्षत । कथं शीघ्रमन्योस्तुल्यदृष्टिरत आह-सर्वः प्राणी अनुरूपचेष्टः स्वजात्युचितव्यापारः सन् प्रीणातीति प्रियः प्रीतिकरो भवति खलु । 'इगुपधज्ञाप्री-' इति कर्तरि क्तः । अर्थान्तरन्यासः ॥
त्रस्तः समस्तजनहासकरः करेणो
स्तावत्खरः प्रखरमुल्ललयांचकार । यावच्चलासनविलोलनितम्बबिम्ब
विस्रस्तवस्त्रमवरोधवधूः पपात ॥७॥ त्रस्त इति ॥ करेणोरिभ्याः । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । 'भीत्रार्थानां भयहेतुः' इत्यपादानत्वम् । जस्तो भीतः खरो गर्दभः समस्तजनस्य हासं करो