________________
पञ्चमः सर्गः।
११७ तीति तत्करः सन् । 'कृजो हेतु-' इत्यादिना टप्रत्ययः । तावत्तदवधि प्रखरं भृशमुल्ललयांचकार उत्पपात । यावत् चलात्स्थानचलितादासनात्पल्ययनात् विलोलोऽपसृतस्तस्मानितम्बबिम्बाद्विस्रस्तं वस्त्रं यस्मिन्कर्मणि तद्यथा तथा अवरोधवधूः पपात । स्वभावोक्तिः ॥
शैलोपशल्यनिपतद्रथनेमिधारा
निष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः। भूरेणवो नभसि नद्धपयोदचक्रा
चक्रीवदङ्गरुहधूम्ररुचो विसः॥८॥ शैलेति ॥ शैलस्य रैवतकाद्रेपशल्यं प्रान्तम् । यद्यपि 'अामान्त उपशल्यं स्यात्' इत्यमरः, तथाप्युपचाराददोषः । तत्र निपततां धावतां रथानां नेमयश्चक्रान्ताः । 'चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्' इत्यमरः। तासां धाराभिर्निपिष्टानां चूर्णितानां निष्ठुरशिलातलानां चूर्णो गर्भे येषां ते तथोक्ताः । नभसि नद्धानि पयोदचक्राणि पयोदाकारमण्डलानि यैस्ते चक्रवद्रमणमस्यास्तीति चक्रीवान्गर्दभः । 'चक्रीवन्तस्तु बालेया रासभा गर्दभाः खराः' इत्यमरः । • 'आसन्दीवदष्ठीवञ्चक्रीवत्-' इत्यादिना साधुः । तस्याङ्गरुहाणि रोमाणि तद्वद्धू
म्ररुचः कृष्णलोहितवर्णाः । 'धूम्रधूमलौ कृष्णलोहिते' इत्यमरः । भूरेणवो विसस्नुः प्रसृताः ॥
उद्यत्कृशानुशकलेषु खुराभिघाता
भूमीसमायतशिलाफलकाचितेषु । पर्यन्तवमसु विचक्रमिरे महाश्वाः
शैलस्य दर्दुरपुटानिव वादयन्तः ॥९॥ उद्यदिति ॥ खुराः शफानि । 'शर्फ क्लीवे खुरः पुमान्' इत्यमरः । तेषामभिघातादुद्यन्तः कृशानुशकलाः स्फुलिङ्गा येभ्यस्तेषु । टङ्कप्रायाः खुरा इति भावः । भूम्यां समानि समतलान्यायतानि च यानि शिलाः फलकानीव शिलाफलकानि तैराचितेष्वास्तृतेषु तैलस्य पर्यन्तवमसु प्रान्तमार्गेषु महाश्वा दर्दु. राणां वाद्यविशेषाणां पुटान्मुखानि वादयन्त इव विचक्रमिरे जग्मुः । पादन्यासैस्तादृशं शब्दमकुर्वन्नित्यर्थः । 'वेः पादविहरणे' इत्यात्मनेपदम् । 'दर्दुरस्तोयदे भेके वाद्यभाण्डाद्रिभेदयोः' इत्यमरः । उत्प्रेक्षालंकारः ॥
तेजोनिरोधसमतावहितेन यत्रा
सम्यकशात्रयविचारवता नियुक्तः। आरट्टजश्वटुलनिष्ठुरपातमुच्चै
चित्रं चकार पदमर्धपुलायितेन ॥१०॥ तेज इति ॥ तेजो नाम दर्पापरनामा सत्वगुणविकारः प्रकाशकोऽन्तःसारवि