________________
६६
शिशुपालवधे
अथास्य प्रस्थानसंनाहं वर्णयन्नादौ छत्रधारणमाह - जगत्पवित्रैरपि तं न पादैः स्प्रष्टुं जगत्पूज्यमयुज्यतार्कः । यतो बृहत्पार्वणचन्द्रचारु तस्यातपत्रं बिभरांबभूवे ॥ २॥ जगदिति ॥ अर्को जगत्पूज्यं तं हरिं अतएव जगत्पवित्रैरपि पादैश्वरणैः किरणैश्च स्प्रष्टुं नायुज्यत नार्हत । युजे दैवादिकात्कर्तरि लङ् । कुतः — यतस्तस्य हरेर्बृहद्विपुलं पार्वणचन्द्रचारु पूर्णेन्दुसुन्दरमित्युपमालंकारः । आतपात्रायत इत्यातपत्रं छत्रम् | 'सुपि' इति योगविभागात्कः । बिभरांबभूवे दध्रे । भृञः कर्मणि लिट् 'भीहीभृहुवाम्' इति विकल्पादाम्प्रत्ययः । आतपत्रान्तर्हितस्य द्वयैरपि पादैः स्प्रष्टुमशक्यत्वादित्यर्थः । जगत्पूज्यस्य हरेः पादेन स्पर्शनिषेधादिति भावः ॥
अथ चामरधारणमाह
मृणालसूत्रामलमन्तरेण स्थितश्चलच्चामरयोर्द्वयं सः । भेजेऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥ ३ ॥ मृणालेति ॥ मृणालसूत्रामलं बिसतन्तुविशदमित्युपमा चलन्ती च ते चामरे च चलच्चामरे । वीजनादिति भावः । तयोर्द्वयमन्तरेण स्थितः । द्वयस्य मध्ये स्थित इत्यर्थः । 'अन्तरान्तरेण युक्ते' इति द्वितीया । स हरिरभितःपातुका उभयतःपातिनी सिद्ध सिन्धुराकाशगङ्गा यस्य स तथोक्तः । 'पर्यभिभ्यां च ' इति तसिल्प्रत्ययः । ‘सर्वोभयार्थवर्तमानाभ्यामिष्यते' इत्युभयार्थत्वम् । सुप्सुपेति समासः । पातुकेति । 'लषपत - ' इत्यादिनोकन् प्रत्ययः । तस्याम्बुराशेः समुद्रस्याभूतपूर्वं पूर्वमभूताम् । सुप्सुपेति समासः । रुचं कान्ति भेजे । अतएव निदर्शना । सा चाम्बुराशेः संभावनामात्रोक्त्या अभितः पातुकसिद्धसिन्धु संबन्धमूलया भसंबन्धे संबन्धरूपातिशयोक्त्या स्वोपजीवकसंयोगेन संकीर्यत इति संक्षेपः ॥ अथाष्टभिरस्य प्रसाधनविधिं वर्तयन्मुकुटधारणमाहचित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामनणीयसीभिः । अनेकधातुच्छुरिताश्मराशेर्गोवर्धनस्थाकृतिरन्वकारि ॥ ४ ॥
चित्राभिरिति ॥ अस्य हरेरुपर्यूर्ध्वदेशे मौलिभाजां मुकुटगतानां मणीनामनणीयसीभिर्महती भिश्चिन्नाभिरनेकवर्णाभिर्भाभिः प्रभाभिः कर्त्रीभिः । ' स्युः प्रभारुचिस्त्विमाभाइछ विद्युतिदीप्तयः' इत्यमरः । सान्तपक्षे 'भोभगो-' इत्यादिना रोर्य कारे तस्य 'हलि सर्वेषाम्' इति लोपः । अनेकैर्धातुभिर्गैरिकादिभिछुरितानां रूषितानामश्मनां मणीनां राशिः समूहो यस्य तस्य गोवर्धनाख्यपर्वतस्याकृतिरन्वकार्यनुकृता । तत्सादृश्यमभाजीत्यर्थः । पूर्णोपमेयम् ॥
कुण्डले च धृते इत्याह
तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुत्मतरत्नभासा ।
अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ५ ॥