________________
तृतीयः सर्गः। तस्येति ॥ तस्य हरेरुर उरस्थलमुल्लसन्त्या काञ्चनकुण्डलाग्योः प्रत्युप्तानां खचितानां गारुत्मतरत्नानां मरकतमणीनां भासा दीया । उरसि प्रसरन्त्येति भावः। बाल्यं शैशवम् । ब्राह्मणादित्वात्ष्यञ् । तत्रोचितमभ्यस्तं यन्नीलकण्ठपिच्छं मयूरबर्हम् । 'अभ्यस्तेऽप्युचितं न्याय्ये' इति यादवः । 'पिच्छबहें नपुंसके' इत्यमरः । तेन निर्मितावचूडा मालिका तस्याः कलनामामोचनमवमोचनं वा अवापेत्युत्प्रेक्षा । 'यत्रान्यधर्मसंबन्धादन्यदेवोपतर्कितम् । प्रकृते हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥' इति लक्षणात् ॥
तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनया मणीनाम् । वहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥६॥ तमङ्गदे इति ॥ तं हरिं मन्दरकूटकोटिव्याघट्टनं मन्दराचलशिखरामसंघर्षणं सैवोत्तेजना शाणोल्लेखना तया बंहीयसा बहुतरेण । 'प्रियस्थिर-' इत्यादिना बहु. लशब्दस्येयसुनि बहादेशः । मणीनां दीप्तिवितानकेन प्रभापटलेनोल्लसन्ती दीप्यमाने । 'आच्छीनद्योर्नुम्' इति नुमागमः । अङ्गदे केयूरे । 'केयूरमगदं तुल्ये' इत्यमरः । चकासयामासतुः शोभयांचक्रतुः। अङ्गदे मृतवानित्यर्थः । चकास्तेय॑न्ता. ल्लिटि आम्प्रत्ययेऽस्तेरनुप्रयोगः । अत्राङ्गदयोः प्राग्भवीयाङ्गदभेदेऽप्यभेदोक्तिमु. प्रेक्ष्य तयोर्मन्दरकूटकोट्यसंबन्धेऽपि संबन्धोक्त्या द्वयोरतिशयोक्त्योः संकरः ॥ निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छरितैनखात्रैः। व्यद्योतताद्यापि सुरारिवक्षोविक्षोभजासृक्नपितैरिवासौ॥७॥ निसर्गेति ॥ असौ हरिनिसर्गरक्तैः स्वभावलोहितैः। किंच वलये कटके। 'कटके वलयोऽस्त्रियाम्' इत्यमरः। तयोरवनद्धानां प्रत्युप्तानां ताम्राश्मनां पद्मरागाणां रश्मिभिः छुरितैः अतएवाद्यापि सुरारेहिरण्यकशिपोर्वक्षसो विक्षोभेण विदारणेन जाता यासृक्तया स्नपितैः सिक्तैरिव स्थितेत्युत्प्रेक्षा । स्रातेय॑न्तात् क्तः। 'अर्तिही-' इत्यादिना पुगागमः । मितां ह्रस्वः । नखाग्रैर्व्यद्योतत । कटके च धृतवानित्यर्थः ॥
उभौ यदि व्योनि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥८॥ उभाविति ॥ तमालवन्नीलं आमुक्ते आसञ्जिते मुक्तालते लतादीर्घत्वसाम्येन मौक्तिकहारौ यस्मिंस्तस्य हरेर्वक्ष आकाशगङ्गायाः पयस उभौ प्रवाही व्योनि यदि पृथक्पतेतां प्रवहेतां चेत् । संभावनायां लिङ् । तेन व्योम्नोपमीयेत समीक्रियेत । नास्योपमानं किंचित्पश्याम इति भावः । मुक्ताहारं धृतवानित्यर्थः । अन्न व्योम्नो गङ्गाप्रवाहद्वयासंबन्धेऽपि संभावनायां संबन्धकथनादतिशयोक्तिः । त. देतत् 'पुष्पं प्रवालोपहितं यदि स्या' दित्याद्युदाहृत्यालंकारसर्वस्वकारः स्पष्टीचकार॥
तेनाम्भसां सारमयः पयोधेर्दधे मणिर्दीधितिदीपिताशः। अन्तर्वसन्विम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥९॥